पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः]१४१ पञ्चदर्श प्रकरणम् । राज्यस्त्रीस्थानदेशानां दानेन च दमेन च । विग्रहस्य तु युक्तज्ञैरिति प्रशमनं स्मृतम् ॥ ६ ॥ एतदेव तु विज्ञेयं स्वार्थधर्मविघातजे । विषयध्वंसजे शत्रोर्विषयप्रतिपीडनम् ॥ ७ ॥ ज्ञानापहारसम्भूते ज्ञानशक्तिविघातजे । शमस्तदर्थत्यागेन क्षान्त्या वोपेक्षणेन वा ॥ ८ ॥

तत्र देशकालबलोपेतश्चेद् विगृह्णीयीत्, नो चेदभ्युपायैः शमयेदित्युपाया- नाह दशभिः श्लोकैः । राज्येत्यादि । सप्तोपायान् वक्ष्यति - " साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ॥” (सर्ग. १८, श्लो. ३.) इति । तत्र राज्यं प्रकृतयः, स्त्री अवरोधसम्बद्धा, स्थानं दुर्ग, देशो राष्ट्रम् | एषामन्यतमापहारजस्य विग्रहस्य प्रशमनमिति सम्बन्धः । दानेन दमेन चेति । कोशदण्डभूर्मानामन्यतमप्रदानेन राज्यप्रत्यानयनहेतुना, दमेन चेत्यप्रकाशेन दण्डेन । इदमुक्तं भवति --- राज्यादिकमपहरन्तं शत्रुं तूष्णीं युद्धेनोपताप्य प्रका- शयुद्धान्निवर्तयेदिति ॥ ६॥ स्वार्थधर्मविघात विग्रह इति विपरिणतमनुषज्यते । "ज्ञानार्थशक्तिधर्मीणां विघात" (श्लो. ४) इत्यत्रार्थधर्मौ निर्दिशति । ज्ञानशक्ती तु निर्देक्ष्यति । स्वार्थी दुर्गादिकर्म, स्वधर्मश्वाश्वमेधादिप्रवर्तनम् । विषयध्वंसज इति पीडां वैषयिकीं निर्दिशति । शत्रोर्विषयप्रतिपीडनं यावन्मात्रं शत्रुर्दाहविलोपादिनापकुर्यात्, तावन्मात्रमस्य प्रत्यपकुर्यात् तेजसः सन्धानकारणत्वात् ॥ ७ ॥ ज्ञानापहारसम्भूते ज्ञानशक्तिविघातज इति । अशास्त्रचक्षुर्बालिशतर इति परेण सम्भूतज्ञानेन विलोपात् तेजस्विनो विग्रहः सम्भवति, तथा शास्त्रादि- परिज्ञानं मा भूदस्येतीययाचार्यनिवारणादिव्यापारेण ज्ञानविघातदपि सम्भवति, यथा दुर्योधनेनार्जुनस्य । विजिगीषोः परेण पार्ष्णिग्राहादिना शक्तिविघाताद् विग्रहो भवति । एषु त्रिषु यथासम्भवं शमोपायत्रयम् । तत्र शक्तिविघातजे तद- २. 'प्रज्ञानापहारिव' क ख ग घ १. ‘क्ति' ख-ग. पाठः, 'तज्ञैः पाठ:. ३. 'दि कु' डच पाठः 6. 'तोsपि' क ख ग घ पाठः. सम्यक प्र' क. पाठः ४. 'द्भूत' ग घ पाठ. ५. 'ज्ञानवि' ङ च पाठः