पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[दशमः अथ दशमः सर्गः ।

  • १५ विग्रहविकल्पप्रकरणम् *

अमर्षोपगृहीतानां मन्युसन्तप्तचेतसाम् । परस्परापकारेण पुंसां भवति विग्रहः ॥ १ ॥ आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा । देशकालबलोपेतः प्रारभेतैव विग्रहम् ॥ २ ॥ राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च । अपहारो मदो मानः पीडा वैषयिकी तथा ॥ ३ ॥ ज्ञानार्थशक्तिधर्माणां विघातो दैवमेव च । मित्रार्थ चावमानश्च तथा बन्धुविनाशनम् ॥ ४ ॥ भूतानुग्रहविच्छेदस्तथा मण्डलदूषणम् । एकार्थाभिनिवेशित्वमिति विग्रहयोनयः ॥ ५ ॥ सन्ध्युपायत्वाद् विग्रहस्य तदनन्तरं विग्रहविकल्पा उच्यन्ते । तत्र लोकप्रतीत्या चिग्रहोत्पत्तिं दर्शयन्नाह - अमर्षेत्यादि । अमर्षः परिभवासहिष्णुता । मन्युशब्दोऽत्र दुःखे वर्तते । परस्परापकारेणेति विग्रहस्य स्वरूपमाह । इदमुक्तं भवति - अमर्षात् शरीरद्रव्यपीडनादिदुःखाच्च लोके परस्परापकारलक्षणो विग्रही भवतीति । तथा चोक्तम् " आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयती” (कौटि. अर्थ. ७-२-१०१ ) ति ॥ १ ॥ वैशेषिकं विधिमाह - आत्मन इत्यादि । अजातदुःखामर्षो ऽप्यात्मवृद्धिं वाञ्छन्, परेण वा राज्यापहारादिना पीड्यमानो जातदुःखामर्षो विगृहीयात् । देशकालबलोपेत इत्युभयत्रापि द्रष्टव्यम् । बलं शक्तिः । देशकालाद्यभ्युच्चित इत्यर्थः । प्रारभेतैवेत्यवधारणादयमेव पक्षो ज्यायानिति दर्शयति ॥ २ ॥ यैः परेण पीड्यमानो विगृह्णीयात्, तान् विग्रहहेतूनाह - राज्येत्यादि- श्लोकत्रयेण । अत्र ज्ञानग्रहणमेकमपहारशब्देन सम्बध्यते । द्वितीयं विघातशब्देन सम्बन्धनीयम् । एते विंशतिर्विग्रहहेतवः ॥ ३ ॥ ४ ॥ ५ ॥ १. 'र्षातिगृ' ख-ग. पाठः-