पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] चतुर्दशं प्रकरणम् । स्वगुप्तिमाधाय सुसंहतेन बलेन धीरो विचरन्नरातिम् । सन्ताषयेद् येन सुसम्प्रतप्त- स्तप्तेन सन्धानमुपैति तप्तः ॥ ७८ ॥ इति स्म सन्धिं खलु सन्धिवित्तमा बभाषिरे पूर्वतना महर्षयः । तैदेतदेवं विनयेन्नरेश्वरः संवीक्ष्य कार्य गुरु चेतरद् द्विधा ॥ ७९ ॥ (इति सन्धिविकल्पो नाम चतुर्दशं प्रकरणम् ) इति कामन्दकीये नीतिसारे सन्धिविकल्पो नाम नवमः सर्गः । १३९ स्वगुप्तिं स्वरक्षां कृत्वा सुसंहतेन परस्याभेद्येन सन्तापयेद्, येन शत्रुः सम्प्रतप्तः स्यात् । ततश्चोभयसन्तापात् सन्धानं, यदाह --- तप्तेन सन्धानमुपैति तप्त इति ॥ ७८ ॥ प्रकरणार्थमुपसंहरन्नाह---- इतीत्यादि । तदेतदेवमिति । तस्मादेतद् यथोक्तम् । एवं विनयेद् उक्तेन विधिना प्रयुञ्जीत । गुरु चेतरदिति । परात्मनोर्बलाबलं बुद्ध्वा चेत्यर्थः ॥ ७९ ॥ ( इति सन्धिविकल्पो नाम चतुर्दशं प्रकरणम्) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां सन्धिविकल्पो नाम नवमः सर्गः । १. 'हि' इति मूलकांशेषु पाठः. २. 'सस्य स' खग, पाठ:० ३. 'बलात् तदेनं वि' क पाठः, 'तदेवमेनं वि' ख-ग. पाठः