पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ नवमः१३८ कामन्दकीय नीतिसारे कलत्रमात्मा सुहृदो धनानि वृथा भवन्तीह निमेषमात्रात् । मुहुर्मुहुश्राकुलितानि तानि तस्मान्न विद्वानतिविग्रही स्यात् ॥ ७५ ॥ सुहृद्धनं तथा राज्यमात्मानं कीर्त्तिमेव च । इति सन्देहदोलास्थं को हि कुर्यादबालिशः ॥ ७६ ॥ साम्ना प्रदानेन विभेदनेन सन्धापयेत् साध्वभियुज्यमानः । सन्धित्सुरारात् समसैन्यचक्रं सामन्तमायान्तमपेतसन्धिम् ॥ ७७ ॥

पचयः क्षयो हि हिरण्यधान्यापचयो व्ययस्तु' (स. १६. श्लो. २३) इति । आयासः शरीरक्लेशः । आदिशब्दान्मित्रकलत्रादिवियोगः । एते दोषा विग्रहे भवन्ति । तस्मात् तद्व्यपेक्षया न विग्रहमिच्छेत् । अन्वीक्षितसाधुकृत्यः इदमत्र प्राप्तकालमिति । काममित्यभ्युपगमे । काञ्चित् पीडामभियोगमात्रकृताम् । तत्प्रभवा दोषाः विग्रह- प्रभवाः क्षयादयः ॥ ७४ ॥ तदेव स्फुटयति -- कलत्रेत्यादि । आकुलितानि दुरवस्थानात् । नातिविग्रही स्यात्, यावता तु परः सन्दध्यात्, तावन्मात्रकं कुर्यादेव तेजसः सन्धानकारणत्वात् ॥ ७५ ॥ सन्देहदोलास्थं स्यान्न वेति ॥ ७६ ॥ --- तस्मादुपायत्रयं प्रयुञ्जीत । यदाह – साम्नेत्यादि । आयान्तं दूरादेव सन्धापयेत् । साधु शोभनं येन स्वयमेव सन्धि याचेत । समसैन्यचक्रं समबल- न्यायात् सन्धानार्थं प्राप्तम् । सामन्तत्वाच्छत्रुम् । यद्येवमपि न सन्धिमिच्छेत्, तदा तमपेतसन्धिं (साध?सन्ताप) येदिति वक्ष्यमाणश्लोकेनानुबन्धः ॥ ७७ ॥ १. 'संस्तम्भये' क. पाठः, २. 'क्रः" ख-ग. पाठः,