पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] चतुर्दशं प्रकरणम् । दूषिते हि महामात्रे रिपुरुग्रोऽपि धीमता । स्वपक्षे यात्यविश्वासमित्थंभूतश्च निष्क्रियः ॥ ७० ॥ अरेरमात्यान् सन्धाय तदारम्भं शर्मं नयेत् । भिषग्भेदेन वा शत्रु रसदानेन शातयेत् ॥ ७१ ॥ अरेः सर्वप्रयत्नेन पश्चात् कोप प्रकल्पयेत् । पश्चात् कोपमथानिष्टमनुसृत्य प्रधर्षयेत् ॥ ७२ ॥ तद्देशकृतसंवासैश्वारैर्नैमित्तिकैरपि । उपोढव्यसनादेशं कारयेत् सिद्धलक्षणैः ॥ ७३ ॥ क्षयव्ययायासवधादिदोष- व्यपेक्षयान्वीक्षितसाधुकृत्यः । कामं तु पीडामपि काञ्चिदिच्छे- न्न विग्रहं तत्प्रभवा हि दोषाः ॥ ७४ ॥ १३७ दूषिते विजिगीषुणा धीमतेति सम्बन्धः । स्वपक्षे यात्यविश्वासं यथायं. महामात्रो विजिगीषुकार्ये स्थितः तथायमपि कथं न भवेदिति । एवम्भूतश्चाविश्वासी निष्क्रियः संहृताभियोगो भवति । उग्रोऽपि बलवानपीत्यर्थः ॥ ७० ॥ अमात्यानिति बुद्धिसचिवान् कर्मसचिवांश्च । तदारम्भम् अभियोक्तुरमात्यानां वाभियोगव्यापारम् । भिषग्भेदेन वेति । शत्रुवैद्यं वा भेदयित्वा तेनैकरसं दापयित्वा शत्रुं साधयेत् ॥ ७१ ॥ पश्चात् कोषं प्रकल्पयेद् मित्रेण । अनुसृत्य प्रधर्षयेत् उभयतः संपीडनेन ॥ ७२ ॥ चारैर्नैमित्तिकैरपीति नूतननाक्षत्रिकशाकुनिकव्यञ्जनैश्चारैर्वा तद्देशनिवासिभिः । उपोढव्यसनादेशमिति । अभियास्यतः शत्रोर्महाव्यसनं भवितेत्यादेशयेद यात्राविनार्थम् | सिद्धलक्षणैः सिद्धादेशः उल्कारुधिरवृष्ट्यादिभिर्वा कृतकैः ॥ कस्मादेवं यथोक्तमाचरेत् । क्षयेत्यादि । क्षयव्ययौ वक्ष्यति 'मनुष्ययुग्या- 1 १. ‘त्यैः’ इति मूलकोशेषु पाठः २. 'समुन्न' क. पाठः ३. 'ररे:' ख-ग. पाठः ४. 'उ- त्पातव्य' क. पाठः. ५. 'स्मृ' क-ख-ग-घ. पाठः,