पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३६ कामन्दकीय नीतिसारे [ नवमः विस्रम्भे नित्यमुद्युक्तो निगूढाकारचेष्टितः । प्रियाण्येवाभिभाषेत यत् कार्य कार्यमेव तत् ॥ ६६ ॥ विस्रम्भात् प्रियतामेति विस्रम्भात् कार्यमिच्छति । विस्रम्भेण हि देवेन्द्रो दितेर्गर्भमपातयत् ॥ ६७ ॥ युवराजेन सन्धाय प्रधानपुरुषेण वो अन्तः प्रकोपं जनयेदभियोक्तुं स्थिरात्मनः ॥ ६८ ॥ अर्थोत्सर्गेण महता लेखैश्चाप्यर्थसंहितैः । प्रधानपुरुषस्येह प्रकुर्वीतार्थदूषणम् ॥ ६९ ॥ स्वकार्ये निगूढाकारचेष्टितः । कार्यसंवरणार्थं प्रियाण्येवाभिभाषेत । जातविस्रम्भेऽपि यत् कार्ये हृदि स्थितं तत् प्रच्छन्नं कर्त्तव्यमेव, तदर्थत्वादन्यस्येति ॥ ६६ ॥ देवेन्द्रो दितेर्गर्भमपातयत् । देवासुराणां विरोधे व्यापादितानेकपुत्रत्वाद् दितिः शोकसन्तप्ता भक्त्या भर्तार काश्यपमाराध्य 'शक्रस्य हन्ता मे पुत्रोऽस्त्विति वरं वत्रे । सोऽपि यदि वर्षशतमनाशौचा गर्भं धारयसि तदा यथासमीहितस्ते 1 पुत्रो भवेदित्युक्तवान् । तस्यां च तथेत्यङ्गीकृतवचनायां गर्भमादधे । ततस्तां गर्भसंरक्षणाय व्रतचारिणीं वटुव्यञ्जनो भूत्वा शक्रः स्खलितान्वीक्षणपरः परिचरन् एकदा तस्याः पादशौचमकृत्वा शयनमारुय सुप्ताया योगबलात् कुक्षिं प्रविश्य वज्रेण गर्भ सप्तधा कृत्वा पुनरेकैकं सप्त खण्डानकरोत् । तेनैकोनपञ्चाशन्मरुतोऽभवन् ॥ ६७ ॥ यद्यभियोक्ता न सन्धिमिच्छेत्, आत्मनश्च न विक्रमशक्तिं पश्येत्, तदा विधानान्तरमेकादशभिः श्लोकैराह - युवराजेनेत्यादि । अन्तः कोपे हि जनि- तेऽभियोक्ता शिथिलाभियोगः स्यात् ॥ ६८ ॥ - स्थिरात्मनो दीर्घाभियोगे अन्तःप्रकोपजननमाह • अर्थोत्सर्गेणेति । यथाभियोक्ता जानाति तथार्थमुत्सृजेत् लेखं च प्रेषयेदित्यर्थः । अर्थसंहितैरिति अर्थावगाढैः, ये पठितमात्रा एव शङ्कां जनयन्ति । प्रधानपुरुषस्येत्युपलक्षणार्थं युवराजस्यापि ॥ ६९ ॥ १. 'शा' ख- ग. पाठः २ 'च' खग, पाठः ३ 'ह' क. पाठः ४. 'कुर्वीतार्थप्रदृ' ख-ग. पाठः. ५. 'शा' ड-च. पाठः.