पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] चतुर्दशं प्रकरणम् । १३५ युद्धे विनाशो नियतः कदाचिदुभयोरपि । सुन्दोपसुन्दावन्योन्यं समवीर्यौ हतौ न किम् ॥ ६२ ॥ विहीनोऽपि हि सन्धेयो व्यसने रिपुरागतः । पतन् दुनोति हिमवन्तोयबिन्दुरिव क्षेते ॥ ६३ ॥ न सन्धिमिच्छेद्धीनचेत् तत्र हेतुरसंशयः । तस्य विस्रम्भमालक्ष्य प्रहरेत् तत्र निःस्पृहः ॥ ६४ ॥ बलीयसाभिसन्धाय तं प्रविश्य प्रयत्नवान् । तथा सावुपगन्तव्यो यथा विस्रम्भमाप्नुयात् ॥ ६५ ॥ सुन्दोपसुन्दाविति । तौ सोदर्याबसुरौ परस्पराभेद्यौ विन्ध्ये तपसा ब्रह्मामाराध्य वरप्रदानात् परस्यावध्यतां प्राप्य सर्व लोकमभिबभूवतुः । ततो देवास्तद्वधार्थं ब्रह्माणमुपगम्य तदनुज्ञातेन प्रजापतिना रूपयौवनवतीं तिलोत्तमामप्सरसमुत्पाद्य तदाश्रमं प्रेषयामासुः । तौ च तां दृष्ट्वा जातरागावेकद्रव्याभिनिवेशाद् युध्यमानौ तुल्यबलत्वादन्योन्यमेव क्षयं जग्मतुः ॥ ६२ ॥ 1 हीनमधिकृत्याह --- विहीनोऽपीति । व्यसने विजिगीषोर्ज्यायसो दैवे मानुषे वा समुत्पन्ने अभियोक्तुमागतः । हिमवत्तोयबिन्दुरल्पीयान् दुनोति दुःखयति ॥ ६३ ॥ तत्र हेतुरसंशयः । कोऽसावित्याह - तस्य विस्रम्भमिति । अभियोगस्थैर्यमालक्ष्य निस्संशयं प्रहरेत् । कदाचित् स्थिराभियोगी दुःखसाध्योऽपि स्यात् । तत्रेति सन्धौ निःस्पृहः ॥ ६४ ॥ इदानीं कृतसन्धौ ज्यायस्यतिसन्धानविधिं श्लोकत्रयेणाह - बलीयसेत्यादि । प्रविश्य प्रियहितद्वारेण । प्रयत्नवान् यथा हि प्रविष्टो नेता नातिसन्धीयते । विस्रम्भमासाद्य प्रहरेदित्येव ॥ ६५ ॥ १. 'काले दु' ख-ग. पाठः २. क्षितौ' क पाठः ३. श्वत' ख ग पाठः ४. 'निर्दय' इति मूलकोशेषु पाठः. ५. 'साध्वनुग' क. पाठः,