पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३४ कामन्दकीय नीतिसारे [नवमः स्वशक्त्युत्साहमुद्वीक्ष्य विगृह्णीयान्महत्तरम् । केसरीव पिमिति भरद्वाजः प्रभाषते ॥ ५७ ॥ एकोऽपि सिंहः साहस्रं यूथं मनाति दन्तिनाम् । तस्मात् सिंहमिवोदारमात्मानं वीक्ष्य सम्पतेत् ॥ ५८ ॥ ज्यायांसमल्पसैन्यस्य बलाद विक्रम्य निघ्नतः । प्रतापसिद्धाः सर्वत्र भवन्ति रिपवो वशे ॥ ५९ ॥ सन्धिमिच्छेत् समेनापि सन्दिग्धो विजयो युधि । न हि संशयितं कुर्यादित्युवाच बृहस्पतिः ॥ ६० ॥ आ सम्प्रवृद्धेरभिवृद्धिकामः समेन सन्धानमिवोपगच्छेत् । अपक्वयोर्वा घटयोरवश्य- मन्योन्यभेदी समसन्निपातः ॥ ६१ ॥ यदि दुर्गं क्षीयमाणनिचयं मन्येत तद् विशिष्टबलाभावे निचयक्षये च किं कुर्यादित्याह – स्वशक्तीति । आत्मनो विक्रमबलं ज्ञात्वा दुर्गमुन्मुच्य विगृह्णीयात् । महत्तरं ज्यायांसम् । विक्रमशक्त्यभावे तु विधानान्तरं वक्ष्यति । नन्वत्र सन्धिः प्रस्तुतः । सत्यम् । तस्यैवापवादः, सन्ध्युपायो वा यस्मान्नातप्तं लोहं लोहेन सन्धत्त इति ॥ १७ ॥ उक्तमेवार्थ स्पष्टीकुर्वन्निगमयति - एकोऽपीत्यादिना । उदारं विक्रमा- धिकम् ॥ ५८ ॥ अल्पसैन्यस्य विजिगीषोः । बलाद् उत्साहशक्त्या । प्रतापसिद्धा भवन्तीति फलान्तरं दर्शयति ॥ १९ ॥ समसन्धिमधिकृत्याह सन्धिमिच्छेदित्यादिना ॥ ६० ॥ समेनेति । अभियोक्रेति शेषः ॥ ६१ ॥ १. 'स्वोत्साहशक्तिमु' क. पाठ. २. 'तिष्ठतः क. पाठः. ३. 'सांशयिकम् ' ख-ग. पाठः.