पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] १३३ चतुर्दशं प्रकरणम् । अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रतापेन तस्याशु वशं गच्छन्ति विद्विषः ॥ ५३ ॥ न जातु गच्छेद् विश्वासं संहितोऽपि हि बुद्धिमान् । अद्रोहे समयं कृत्वा वृत्रमिन्द्रः पुरावधीत् ॥ ५४ ॥ विकारं याति पुत्रोऽपि राज्यालीढस्तथा पिता । तल्लोकवृत्तान्नृपतेरन्यद् वृत्तं प्रचक्षते ॥ ९५ ॥ अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् । तद्बलीयस्तराद्दानं कुर्वीतात्मविमुक्तये ॥ ५६ ॥

सन्धानं यस्य गच्छतीति । न केवलं तत्सन्धाने विजिगीषोरात्मत्राणम्, अन्येऽपि शत्रवोऽस्य विधेया भवन्ति ॥ ५३ ॥ कृतसन्धौ श्लोकद्वयेन विधिमाह - न जात्वित्यादि । संहितोऽपि समयेन कृतसन्धिरपि । वृत्रमिन्द्रः पुराधीदिति । त्रिशिरसः पुत्रस्य वधामर्षितेन त्वष्ट्रा शक्रवधाय वृत्रो नाम बलीयानसुरः सृष्टः । तेन च शक्रोऽनेकधा युद्धे निराकृतः तमेकदा न केनचिद् विरोद्धव्यमिति शपथपूर्वकं सन्धाय जातविस्रम्भं स्ववज्जा- वध्यं दधीचास्थिघटितेन वज्रेण हत्वा व्यापादितवान् ॥ ५४ ॥ तथाद्यत्वेऽप्ययं व्यवहारो दृश्यत इति दर्शयन्नाह — विकारमित्यादि । लोकवृत्तात् लोकव्यवहारात् ॥ १५ ॥ इदानीमभियोक्रपेक्षया व्यापारं सप्तभिः श्लोकैराह - अभियुक्त इत्यादि । अभियोक्तारस्त्रयो ज्यायान् समो हीनश्च । तत्र मन्त्रोत्साहप्रभावशक्तिभिरभ्युच्चितो ज्यायान् । अपचितो हीनः । तुल्यशक्तिः समः । तत्र ज्यायांश्चेन्न सन्धिमिच्छेद् दुर्गं समाश्रयेत् । यदाह – तिष्ठन् दुर्ग इति । प्रयत्नवान् दुर्गसंरक्षणपरः । तद्वलीयस्तराह्वानमिति । अभियोक्तुर्विशिष्टबलं सामन्तमाहूयात्मानमुपरुद्धं मोचयेत् ॥ १. 'यायाद्' क. पाठः. २. 'व्यवहार' क ख ग घ पाठः.