पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३२ नवमः कामन्दकीय नीतिसारे सङ्घातवान् यथा वेणुर्निबिडः कण्टकैर्वृतः । न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस्तथा ॥ ४७ ॥ समाक्रान्तस्य बलिना सर्वयत्नवतोऽपि हि । हरिणस्येव सिंहेन शरणं नैव विद्यते ॥ ४८ ॥ ईषदायच्छमानोऽपि सिंहो मत्तानपि द्विपान् । 'निहन्ति बलवांस्तस्मात् सन्धेयः शिवमिच्छता ॥ ४९ ॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि धनः कदाचिदपि सर्पति ॥ ५० ॥ बलीयस प्रणमतां काले विक्रामतामपि । सम्पदो नापगच्छन्ति प्रतीपमिव निम्नगाः ॥ ५१ ॥ जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेकयुद्धजयिनः प्रतापादेव भिद्यते ॥ ५२ ॥ निविडः संहतत्वादेव हि दुःखप्रवेशो भवति ॥ ४७ ॥ बलिना शक्तित्रययुक्तेन ॥ ४८ ॥ आयमनम् उद्योगः ॥ ४९ ॥ निदर्शनम् आगमः । प्रतिवातं वाताभिमुखम् ॥ ५० ॥ काले विक्रामतामपीति । अभ्युच्चयकाले विक्रममाणा अप्यनभ्युच्चिताश्चेत् प्रणमन्ति तदैषां सम्पदो नापगच्छन्ति । बलीयसोऽनेकोदाहरणमावश्यकार्थम् ॥ ५१ ॥ जमदग्नेः सुतस्येति । भिन्नाधिकरणा षष्ठी । अनेकयुद्धजयिन इति । स हि पितृवधामर्पितः कार्त्तवीर्य निहत्य रोषादेकविंशतिं वारान् निःक्षत्रां पृथिवीं चकार । तस्य चाभियोक्तुः प्रतापादेव । सर्वो ज्यायान् समो हीनः । सर्वत्र दुर्गे चादुर्गे च । सर्वदाभियोक्ताभियोक्ष्यमाणश्च भज्यते ॥ ५२ ॥ १. 'हिनस्ति' क. पाठः २ 'ग्निसु' इति मूलकोशेषु पाठः ३. 'हि नीचः । स' क-ख. पाठः.