पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] चतुर्दशं प्रकरणम् । १३१ कौशिकेन हतज्योतिर्निशीथ इव वायसः । सत्यधर्मव्यपेतेन न सन्दध्यात् कथञ्चन ॥ ४२ ॥ [सुसंहितोऽप्यसाधुत्वादचिराद् याति विक्रियाम् । ] सत्यार्यौ धार्मिकानार्यौ भ्रातृसङ्घातवान् बली । अनेकविजयी चेति सन्धेयाः सप्त कीर्त्तिताः ॥ ४३ ॥ सत्योऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् । प्राणबाधेष्वपि व्यक्तमार्यो नायात्यनार्यताम् ॥ ४४ ॥ धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद् धर्माच्च दुःखोच्छेद्यो हि धार्मिकः ॥ ४५ ॥ सन्धिः कार्यो ह्यनार्येण स प्रायः सादयन् द्विषः । रेणुकायाः सुत इव मूलेष्वपि न तिष्ठति ॥ ४६ ॥ कौशिकः उलूकः ॥ ४२ ॥ [असाधुत्वाद् अस्थिरप्रकृतित्वात् ॥ ] अथ सन्धेयानाह - सत्येत्यादिना ॥ ४३ ॥ कस्मादेते सन्धेया इत्याह- - सत्य इत्यादि । सत्ययुक्तः प्राणबाधेष्वपि म्रियमाणोऽपि । आर्यः युक्तकारी ॥ ४४ ॥ धार्मिकस्य न्यायेन पालयतः । सर्व एवेति उदासीनः शत्रुश्च ॥ ४५ ॥ सन्धिः कार्यो नार्येण अयुक्तकारिणा । यद्यसौ न सन्धीयते तदा शत्रून् प्राप्योत्सादयन् मूलेष्वपि न तिष्ठति निर्मूलं करोतीत्यर्थः । रेणुकायाः सुत इवेति । जमदग्नेर्महर्षेर्भार्या रेणुका नाम । तस्याः पुत्रः परशुरामः । स किलाश्रमपदादग्निहोत्रधेनुमपहृत्य गच्छता. कार्तवीर्येण तन्मोचनार्थ जमदग्निं पितरं व्यायच्छ(न्तं? मानं) व्यापादितं श्रुत्वा जातमन्युः परशुना कार्त्तवीर्य बाहुसहस्रेण वियोज्य घातितवान्। ततस्तद्रोषादन्यदपि क्षत्रकुलमनपराद्धमुत्सादयितुं प्रवृत्तत्वादनार्यः । तस्मात् तथाविधेन सह सर्वात्मना सन्धानमेव युक्तम् ॥ ४६ ॥ १. 'यत् सन्तोदयेद् द्वि क. पाठः.