पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३० नवमः कामन्दकीय नीतिसारे सन्त्यज्यते प्रकृतिभिर्विरक्तप्रकृतिर्युधि । सुखाभियोगो भवति विषयेष्वतिसक्तिमान् ॥ ३४ ॥ अनेकचित्तमन्त्रश्च द्वेष्यो भवति मन्त्रिणाम् । अनवस्थितचितत्वात् कार्ये तैः समुपेक्ष्यते ॥ ३५ ॥ सदाधर्मबलीयस्त्वाद् देवब्राह्मणनिन्दकः । विशीर्यते स्वयं ह्येव दैवोपहतकस्तथा ॥ ३६ ॥ सम्पत्तौ च विपत्तौ च दैवमेव हि कारणम् । इति दैवपरो ध्यायन्नात्मना न विचेष्टते ॥ ३७ ॥ दुर्भिक्षव्यसनी चैव स्वयमेवावसीदति । बलव्यसनयुक्तस्य योद्धुं शक्तिर्न विद्यते ॥ ३८ ॥ अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहोऽल्पीयानपि जले गजेन्द्रमपि कर्षति ॥ ३९ ॥ ग्राहवानीरदेशस्थः शुनापि परिभूयते । बह्वमित्रस्तु सन्त्रस्तः श्येनमध्ये कपोतवत् ॥ ४० ॥ येनैव गच्छति पथा तेनैवाशु विनश्यति । अकालयुक्त सैन्यस्तु हन्यते कालयोधिना ॥ ४१ ॥ [ विरक्तप्रकृतिः अदण्ड्यदण्डनाद्याचरणात् । विषयेषु स्त्रीपानादिषु ||३४|| द्वेष्यो भवति यथोक्तश्रवणात् । तैरिति मन्त्रिभिः ॥ ३५ ॥ दैवोपहतकः स्वयं कल्यमप्यारभमाणो यो न फलभाक् ॥ ३६ ॥ न विचेष्टते न पौरुषमारभते ॥ ३७ ॥ बलव्यसनम् 'उपरुद्धं परिक्षिप्तमि' (स. १४. श्लो. ६७.) त्यादि वक्ष्यति ॥ ३८ अदेशस्थः स्वसैन्यव्यायामानामयोग्ये देशे स्थितः ॥ ३९ ॥ बह्वमित्रः प्रकोपितबहुमण्डलतया ॥ ४० ॥ अकालयुक्त सैन्यः न युद्धयोग्ये काले नियुक्तं सैन्यं यस्येत्यर्थः ॥ ४१ ॥