पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]१२९ चतुर्दशं प्रकरणम् । अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥ २७ ॥ एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् । ते विगृह्यमाणा हि ध्रुवं यान्ति रिपोर्बशम् ॥ २८ ॥ बालस्यान्यप्रमाणत्वान्न लोको योडुमिच्छति । योद्धुं स्वयमशक्तः सन् परार्थे कोऽभियुज्यते ॥ २९ ॥ उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस्तथा । स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥ ३० ॥ सुखोच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः । त एवैनं विनिघ्नन्ति ज्ञातयस्त्वात्मसात्कृताः ॥ ३१॥ भीरुर्युद्धपरित्यागात् क्षिप्रमेव विनश्यति । वीरोऽप्यवीरपुरुषः सङ्ग्रामे तैर्विमुच्यते ॥ ३२ ॥ लुब्धस्यासंविभागित्वान्न युध्यन्ते ऽनुजीविनः । लुब्धानुजीवी तैरेव दानभिन्नैर्निहन्यते ॥ ३३ ॥

कस्मादेवं विगृह्यमाणा वशं यान्तीत्याह - बालस्येत्यादि । बालस्याप्रा- प्तव्यवहारस्याप्रभावत्वाद्, अन्यप्रमाणः स्वयं प्रभुशक्त्यभावाद्, योद्धुं चासावशक्तः विक्रमस्याभावात् ॥ २९ ॥ दीर्घामयः राजयक्ष्मादिपीडितः ॥ ३० ॥ सर्वज्ञातिबहिष्कृतो निराश्रयः । आत्मसात्कृताः विजिगीषुणा । स्वयमेवानुगच्छन्ति विजिगीषुमित्यर्थः ॥ ३१ ॥ भीरुः विभीतः । अवीरपुरुषो भीरुसैन्यः । तैर्विमुच्यते भीरूपुरुषैः ॥ ३२ ॥ असंविभागित्वाद् अकल्पितभृत्यजीवितत्वात् । तैरेवेति लुब्धैरनुजीविभिः । विजिगीषुणा दानेन भिन्नैः ॥ ३३ ॥ १. 'स्तु क्षिप्रं या' ख-ग, पाठः २. 'स्वयं योद्धुमशक्तस्य परार्थे योऽनुयुध्यते क. पाठः.