पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कामन्दकीयनीतिसारे [ नवमः परस्परोपकारश्च मैत्रः सम्बन्धजस्तथा । उपहारश्च विज्ञेयाश्चत्वारोऽन्ये तु सन्धयः ॥ २१ ॥ एक एवोपहारस्तु सन्धिरेतन्मतं हि नः । उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ॥ २२ ॥ अभियोक्ता बली यस्माइलब्ध्वा न निवर्तते । उपहारादृते तस्मात् सन्धिरन्यो न विद्यते ॥ २३ ॥ बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ २४ ॥ विरक्तप्रकृतिश्चैव विषये प्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ २५ ॥ दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥ २६ ॥

श्लोकत्रयेण मतभेदमाह -- परस्परेत्यादि । चत्वारः सन्धय इति केचि दाहुः । तत्र परस्परोपकारः प्रतीकारसन्धिः । तत्रोपन्याससंयोगयोरन्तर्भावः । तत्र ह्युभयोरपि राज्ञोरेकार्थसिद्ध्या परस्परोपकारात् । मैत्रः सङ्गतसन्धिः । सम्बन्धजः सन्तानसन्धिः । उपहारश्चतुर्थः सन्धिः । तत्र शेषा अन्तर्भूताः, कोशदण्डभूमीना- मुपह्रियमाणत्वाद् इति ॥ २१ ॥ 1 स्वमतमाह -- एक एवेति | मैत्रवर्जिताः सङ्गतसन्धौ सम्प्रदानाभावात् । सोऽन्यकाले दुर्लभ इत्येक एवेत्यवधारयति ॥ २२ ॥ तदेव न्फुटयन्नाह – अभियोक्त्यादि । अलब्ध्वा न निवर्त्तते बलोद्- वृत्तत्वात् । अनभियोक्ताप्युपन्यास प्रतीकार संयोग सन्धिप्वलब्धिवाङ् न घटते । तस्मा- दुपहारहते सन्धिरन्यो नास्ति ॥ २३ ॥ इदानीमसन्धेयानभियोक्तृन् निरूपयति त्रिंशता श्लोकैः । तत्रासन्धेयान- धिकृत्याह -- बाल इत्यादि ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ १. 'रस्त्वेव सन्धयः' ख-ग. पाठ:: २. 'संयुतः' क. पाठः.