पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः]१२७ चतुर्दश प्रकरणम् । यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः ।

सन्धीयते सम्मिविद्भिरादिष्टः स उदाहृतः ॥ १६ ॥ स्वसैन्येन तु सन्धानमात्मामिष इति स्मृतः । क्रियते प्राणरक्षार्थ सर्वदानसुपग्रहः ॥ १७ ॥ कोशांशेनाथ कुप्येन सर्वकोशेन वा पुनः । शेषप्रकृतिरक्षार्थ परिक्रय उदाहृतः ॥ १८ ॥ भुवां सारवतीनां तु दानादुच्छिन्न उच्यते । सर्वभूम्युत्थितफलदानेन परदूषणः ॥ १९ ॥ परिच्छिन्नं फलं यत्र स्कन्धस्कन्धेन नीयते । स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविदो जनाः ॥ २० ॥ भूम्येकदेशेनेति । अर्द्धेन त्रिभागेन वा पणेन शेषप्रकृतिरक्षार्थं सन्धीयते । अयं परस्य बलवतोऽभिप्रेतत्वान् आदिष्टसन्धिः ॥ १६ ॥ 1 स्वसैन्येन तु सन्धानमिति । स्वसैन्येन सह स्वयं शत्रुसमीपमुपगम्य । अयमात्मानमामिषीकृत्य क्रियमाणत्वाड् आत्मामिषसन्धिः । सर्वदानमिति । आत्म- नैव सम्पादनीयाः पुनरपि विषयाः, नतु प्राणा इति प्राणरक्षार्थ सर्वराज्यदानं यत्र स उपग्रहः, सर्वथा शत्रुपग्रहहेतुत्वात् ॥ १७ ॥ कोशांशेनेति त्रिभागेन चतुर्भागेन वा । कुप्येन वस्त्रकम्बलादिना । अयं शेषप्रकृतीनामच्छिन्नानामिव परिक्रयणात् परिक्रयसन्धिः ॥ १८ ॥ सारवतीनां कोशदण्डविष्टिजनिकानाम् । अयं सारभूम्युपहारादुच्छिन्नस्यैव सन्धिः उच्छिन्नसन्धिः । सर्वभूम्युत्थित फलदानेनेति । सर्वग्रहणमाधिक्यार्थम् । भूमिभ्यो यत् फलमुत्पद्यते तदतिरिक्तदानेनेत्यर्थः । अयं परस्य दूषणात् परदूषणः । तद् यथा - अपकर्तुकामो ह्यन्यमायादभ्यधिकमिच्छतीति ॥ १९ ॥ परिच्छिनं त्वयैतावदुपनेतव्यमिति । स्कन्धस्कन्धेन खण्डखण्डेन । एते नव सन्धयोऽभियोक्तरि द्रष्टव्याः ॥ २० ॥ १. ' तद्भूमिफलदानेन सन्धिः स्यात् प' क पाउः २. 'न्थिमर्थवि' ख-ग. पाठः.