पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२६[ नवमः कामन्दकीय नीतिसारे मयास्योपकृतं पूर्वमयं प्रतिकरिष्यति ।

इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ ११ ॥ उपकारं करोम्यस्य ममाप्येष करिष्यति । अयं चापि प्रतीकारो रामसुग्रीवयोरिव ॥ १२ ॥ एकार्थी सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः । स संहतप्रयाणस्तु सन्धिः संयोग उच्यते ॥ १३ ॥ आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति । यस्मिन् पर्णः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ १४ ॥ त्वयैकेन मदीयार्थः सम्प्रसोध्यस्त्वसाविति । यत्र शत्रुः पणं कुर्यात् सोऽदृष्टपुरुषः स्मृतः ॥ १५ ॥ • अयं प्रतिकरिष्यति ममापन्नस्येत्युपकारः । अयं प्रतीकारहेतुत्वात् प्रतीकारसन्धिः ॥ ११ ॥ 1 रामसुग्रीवयोरिवेति । तयोः समानव्यसनयो रामेण प्रत्युपकारकामेन सुग्रीवस्य वालिबधपूर्वकेण राज्यदानेन प्रथममुपकृतमिति प्रसिद्धमेतत् ॥ १२ ॥ एकार्थामिति । एकयातव्यविषयां गच्छतः वैरिविजिगीषू । तयोर्यत्र संहतयोः प्रयाणं, स संयोगसन्धिः सम्भूयैकत्र गमनात् । एते त्रयः सन्धयोऽनभियोक्तरि द्रष्टव्याः ॥ १३ ॥ आवयोर्योधमुख्याभ्यामिति । त्वदीयेन मदीयेन च सेनापतिना म (द) र्थः साध्यः । अस्मद्भूमौ व्युत्थानादिकं प्रसाधयितव्यम् । अयं विजिगीषोः पुरुषान्तरेण सन्धानात् पुरुषान्तरसन्धिः ॥ १४ ॥ त्वयैकेनेति । न मया दण्डेन वा त्वयैवैकेन । अयं विजिगीषोर मित्रार्थमन्यत्र साधयतः परेणादृष्टत्वाद् अदृष्टपुरुषः सन्धिः ॥ १५ ॥ १. 'णश्च क्रि' क. पाठः २. 'धार्यस्त्व' खन्ग, पाउः ३. 'यादिष्टेन' क ख ग घ पाठः,