पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] .१२५ चतुर्दशं प्रकरणम् । सम्प्रदानाद् भवति य उपहारः स उच्यते । सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः ॥ ६ ॥ सद्भिः सङ्गतसन्धिस्तु मैत्रीपूर्व उदाहृतः । य ावदायुः प्रमाणं तु समानार्थप्रयोजनः ॥ ७ ॥ सङ्गतः सन्धिरेवेह प्रकृष्टत्वात् सुवर्णवत् । अपरैः सन्धिकुशलैः काञ्चनः स उदाहृतः ॥ ८ ॥ सम्पत्तौ च विपत्तौ च कारणैयों न भिद्यते । सङ्गतः सन्धिरेवेह काञ्चनः समुदाहृतः ॥ ९ ॥ भव्यामेकार्थसिद्धिं तु समुद्दिश्य क्रियेत यः । स उपन्यासकुशलैरुपन्यास उदाहृतः ॥ १० ॥

इत्यादि । केवलं समसन्धिक इति । इदमुक्तं भवति - यथा कपालपुटयोस्तुल्या- यामपि प्रत्यासत्तौ नैकीभावो दृष्टः सैन्धेः एवमनयोरिश्वासान्नैकात्म्यं, सन्धानमेव केवलं तुल्यमिति ॥ ५ ॥ सम्प्रदानादिति । स्वेच्छया द्रव्यस्यादावेव तावदुपहियमाणत्वाद् उपहारः । दारिकाशनपूर्वक इति कन्यां दत्वा यः क्रियते । सन्तानहेतुत्वात् सन्तानसन्धिः ॥ ६ ॥ मैत्रीपूर्वः सम्प्रदाने सत्यसति वा । यावदायुः प्रमाणं यावज्जीवम् । समानार्थप्रयोजन इति विश्वासांदकीभावगतत्वात् तुल्यरूपं प्रयोजनं यत्र सः ॥ ७ ॥ सख्यहेतुत्वात् सङ्गतसन्धिः । प्रकृष्टत्वात् सख्यस्य । सुवर्णवदिति । एकभूतयोः सुवर्णसन्धिः । अथवा सङ्गतसन्धिरेव सुवर्णवदिति सर्वलोहेभ्यः सर्वसन्धिभ्य उत्कृष्टत्वात् काञ्चनसन्धिरिति कैश्चिर् व्यवहियते । एते चत्वारः सन्धयोSभियोक्तरि सन्धेये द्रष्टव्याः ॥ ८ ॥ ९ ॥ भव्यामिति कल्याणोदयाम् । अयं शत्रुरुभयापकारी, मयात्मिन्नुच्छिन्ने भवतोऽप्यर्थसिद्धिरित्युपन्यस्य यः सन्धीयमाने क्रियते स उपन्यासः ॥ १० ॥ १. 'णस्तु' क. पाठः २. 'सम्बन्धः' क ख ग घ पाठः, ३. 'यदेक' क ख ग घ पाठः. ४. 'वर्णमिव सर्व' क ख ग घ पाठः.