पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[[वर्गः:]]________________

[नवमः अथ नवमः सर्गः ।

  • १४ सन्धिविकल्प प्रकरणम् *

बलिना विगृहीतः सन् नृपोऽनन्यप्रतिक्रियः । आपन्नः सन्धिमन्विच्छेत् कुर्वाणः कालयापनम् ॥ १ ॥ कपाल उपहारश्च सन्तानः सङ्गतस्तथा । उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ २ ॥ अदृष्टनर आदिष्ट आत्मामिष उपग्रहः । परिक्रयस्तथेोच्छिन्नस्तथा च परदूषणः ॥ ३ ॥ स्कन्धोपनेयः सन्धिश्च षोडशः परिकीर्त्तितः । इति षोडशकं प्राहुः सन्धि सन्धिविचक्षणाः ॥ ४ ॥ ( " तथान्तर्भेदरूपेण भवत्ये कोऽप्यनेकधा । ) कपालसन्धिर्विज्ञेयः केवलं समसन्धिकः ॥ ५ ॥ षाड्गुण्यस्य कारणं मण्डलं व्यापाररूपं च तच्चरितमुक्तम् । इदानीं षाड्गुण्यमेव स्वरूपतः सर्गत्रयेणोच्यते । तत्र षडेव गुणाः षाड्गुण्यं, चातुर्वर्ण्यवत् । ते च सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः । तत्र सन्धिविग्रहयोः प्रधानत्वात् तद्विकल्पः सर्गत्रयेणोच्यते । तत्र सन्धिमधिकृत्याह - आपन्न इत्यादि । आपन्न आपद्गतः बलीयसाभिभूयमानत्वात् । सन्धि पणबन्धम् । कुर्वाणः काल-ापनं स्वशक्तिपूरणार्थम् ॥ १ ॥ सन्धिविकल्पानाह --- कपाल इत्यादिना । अत्र सन्धेयो द्विविधः अन-ियोक्ता अभियोक्ता च । तत्रोपन्यासप्रतीकारसंयोगास्त्रयः सन्धयोऽनभियोक्तरि द्रष्टव्याः । शेषास्त्रयोदशाभियोक्तरि द्रष्टव्याः ॥ २ ॥ ३ ॥ ४ ॥ उद्दिष्टानां निर्देशमाह सार्द्धैश्चतुर्दशभिः श्लोकैः-कपालसन्धिर्विज्ञेय १. 'लवद्धि' क. पाठः.

  • अर्धमिदं खन्गयोः परं मूलकोशयोर्दृश्यते व्याख्यात्रा च न स्पृष्टम् .