पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ सर्गः १२३ त्रयोदशं प्रकरणम् । इति स्म राजा नयवर्त्मना व्रजन् समुद्यमी मण्डलशुद्धिमाचरेत् । विराजते साधु विशुद्ध मण्डलः शरच्छशीव प्रतिरञ्जयन् प्रजाः ॥ ९० ॥ ( इति मण्डलचरितं नाम त्रयोदशं प्रकरणम् ) इति कान्मन्दकीये नीतिसारे मण्डलयोनिमण्डलचरिते नाम अष्टमः सर्गः ।

विजिगीषावस्थामाश्रित्य, यथोक्तं प्राक् । सम्यक् साधनं यथोक्तं चरितम् । तदेव मण्डलस्य शोधनम् || ८९ ॥ प्रकरणार्थानुष्ठानफलमाह - इतीत्यादिना । एवमुक्तेन तथा येन च नयमार्गेण मण्डले चरन् । राजा विजिगीषावस्थावस्थितः । समुद्येनीति उत्साहः प्रयातमिति दर्शयति । मण्डलशुद्विमाचरेद्, यथा तन्न कुप्येत् कुपितं वा शाम्येत् । प्रतिरञ्जयन् प्रजा इति मण्डलशुद्धिफलमेतत् ॥ ९० ॥ (इति मण्डलचरितं नाम त्रयोदशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां मण्डलयोनिमण्डलचरिते नाम अष्टमः सर्गः । १. 'रन्' ख-ग. पाठः, २. 'त' इति क ख ङ. पाठः,