पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२२ कामन्दकीय नीतिसारे [ अष्टमः प्रकाशपक्षग्रहणं न कुर्यात् सुहृदां स्वयम् । अन्योन्यमत्सरं चैषां स्वयमेवाशुं वारयेत् ॥ ८४ ॥ क ार्यस्य हि गरीयस्त्वान्नीचानामपि कालवित् । सतोऽपि दोषान् प्रच्छाद्य गुणानप्यसतो वदेत् ॥ ८५ ॥ प्रायो मित्राणि कुर्वीत सर्वावस्थानि भूपतिः । बहुत्रो हि शक्नोति वशे स्थापयितुं रिपून् ॥ ८६ ॥ न तत्र तिष्ठति भ्राता न तथान्योऽपि वा जनः । पुंसामापत्प्रतीकारे सन्मित्रं यत्र तिष्ठति ॥ ८७ ॥ अमित्रान् सर्वतो मित्रैर्निगृह्णीयाद् दृढवैतैः इति मण्डलवृत्तं तद् मण्डलज्ञाः प्रचक्षते ॥ ८८ ॥ म ित्रोदासीनरिपव एतन्मात्रं तु मण्डलम् । सम्यक् साधनमेतेषामिति मण्डलशोधनम् ॥ ८९ ॥ प्रकाशपक्षग्रहणं न कुर्याद् अन्यथा हीतरस्येर्प्यया वैमुख्यं स्यात् । अवकाशं तु कार्यवशात् कुर्यादित्यर्थोक्तम् । अन्योन्यमत्सरं परस्परसम्पदसहिष्णुताम् । वारयेत् मा भूदेषामन्योन्यक्षय इति ॥ ८४ ॥ 9 नीचानां निकानां । सतो विद्यमानानपि । असतः अविद्यमानानपि ॥ ८५ ॥ ननु चासत्यमुक्ता किमर्थं नीचान् मित्रीकुर्यादित्याह प्राय इत्यादि । सर्वावस्थाने मध्यमोत्कृष्टनिकृष्टानि ॥ ८६ ॥ सन्मित्रं मित्रलक्षणप्राप्तम् ॥ ८७ ॥


अमित्रान् मित्रैर्निगृह्णीयादिति मित्रो ग्रहफलं दर्शयति । सर्वतः समन्ततः । दृढव्रतैः स्थिरप्रकृतिभिः । इति मण्डलनृतमित्युपसंहारः । तद् यथोक्तं विजिगीषो- र्मण्डलचरितम् ॥ ८८ ॥ तच मण्डलं सङ्क्षेणाह - मित्रोदासीनरिपत्र इति । उदासीनस्योपादानं १. 'नु' ख ग पाठः २ 'पिता न भ्राता नापि बान्धवः' । क. पाठः ३. 'क्रियैः' । ख.ग. पाठ: ४. ' हि ' मूलकोशेषु पाठः ५. 'कुरुत इत्य' क ख ग घ पाठः.