पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] त्रयोदशं प्रकरणम् । १२१ स्वयं दोषगुणान्वेषी भवेत् सर्वत्र सर्वदा । स्वयं ज्ञातेषु दोषेषु शस्यं स्याद्दण्डपातनम् ॥ ७९ ॥ न ह्यविज्ञाय तत्त्वेन दोषं कुप्येत् कथञ्चन । भुजङ्गमिव मन्यन्ते निर्दोषकोधिनं जनाः ॥ ८० ॥ मित्राणामन्तरं विद्यात् समज्यायः कनीयसाम् । मध्यज्यायःकनीयांसि कार्याणि च पृथक् पृथक् ॥ ८१ ॥ न हि मिथ्याभियुञ्जीत शृणुयाच्चापि तद्विधम् । मित्रभेदं च ये कुर्युस्तान समस्तान् परित्यजेत् ॥ ८२ ॥ प्रायोगिकं मात्सरिकं माध्यस्थं पाक्षपातिकम् । सोपन्यासं च जानीयाद् वचः सानुशयं तथा ॥ ८३ ॥ भूतमपि दोषमन्यतः श्रुत्वा स्वयमेव निरूपयेदित्याह - स्वयमित्यादि । सर्वत्र भृत्यमित्रबन्धुषु । दण्डपातनं वधपरिक्लेशादि ॥ ७९ ॥ आस्तामज्ञातदोषेषु दण्डपातनम्, आत्मनः कोपमपि न दर्शयेदित्याह --- न हीत्यादि ॥ ८० ॥ अन्तरं विद्यात् मध्यमोत्तमहीनकर्मसु नियोगार्थम् ॥ ८१ ॥ न हि मिथ्याभियुञ्जीत मम त्वयापचरितमिति । तद्विधमिति मिथ्या, इदं तु मित्रेण तवापचरितमिति । समस्तान् परित्यजेज्, अन्यथा हि मित्राद् वियोजित स्तै रेवोच्छिद्येत ॥ ८२ ॥ तेषां मित्राणां वचः वाक्यतात्पर्य लक्षयेत्, यदाह --- प्रायोगिकमित्यादि । तत्र परप्रयुक्तत्य प्रायोगिकम् । सम्पदसहिष्णोर्मात्सरिकम् । उभयपक्षावनाश्रितस्य माध्यस्थम् । एकपक्षमाश्रितस्य पाक्षपातिकम् । अर्थलिप्सोः सोपन्यासम् । प्रत्ययचिकीर्षोश्च सानुशयमिति ॥ ८३ ॥ १. 'स्सर्वास्तान् परिवर्जयेत्' क. पाठः