पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [अष्टमः १२०. कामन्दकीय नीतिसारे वर्त्तते पक्षपातेन मित्रं चेदुभयात्मकम् । वज्रीव हि त्रिशिरसं तेदुच्छिन्द्यात् कृतत्वरः ॥ ७५ ॥ अमित्रानपि कुर्वीत मित्राप्युपचयावहान् । अहिते वर्त्तमानानि मित्राण्यपि परित्यजेत् ॥ ७६ ॥ स बन्धुर्योऽनुबन्धनाति हितेष्वत्याहितादरः । अनुरक्तं विरक्तं च तन्मित्रमुपकारि यत् ॥ ७७ ॥ मित्रं विचार्य बहुशो ज्ञातदोषं परित्यजेत् । त्यजन्नभूतदोषं हि धर्मार्थावुपहन्ति सः ॥ ७८ ॥

उभयात्मकमिति । शत्रोर्विजिगीषोश्च यन्मित्रं तचेच्छत्रावेव पक्षपातेन बर्त्तते । उच्छिन्द्याद् वज्रीय त्रिशिरसमिति । त्वष्टुः प्रजापतेरपत्यमसुरो ब्राह्मण- स्त्रिशिरा नाम । सोऽत्यन्तमुग्रतया देवासुरयोरुभयोरपि मैत्र्यां वर्तमानोऽप्यसुरेषु पक्षपातेन प्रवृत्त इत्युपलभ्य शक्रेणासुरान्तावद् दुर्जया एवानेन चापरेणाग्रतपसा कृतावष्टम्भाः सुतरां दुर्जया इति जातशङ्केन सहसैव वज्रेणाहतोऽसौ मूर्च्छितः पपात । ततो यज्ञभागस्ते देय इति शक्रप्रलोभितस्तक्षा समुच्छ्रसत एवास्य शिरांसि चिच्छेद ॥ ७५ ॥ उपचयावहानरीनपि मित्रीकुर्वीत, मित्रलक्षणप्राप्तत्वात् । अहिते वर्तमा- नानि त्यजेत्, शत्रुलक्षणप्राप्तत्वात् ॥ ७६ ॥ तदेव स्फुटयन्नाह - स बन्धुरित्यादि । बन्धुमप्यहिते वर्तमानममित्रवत् त्यजेदिति दर्शनार्थं प्रासङ्गिकं तद्वचनम् । अनुरक्तं विरक्तं चेति । मित्रव्यवहारेऽनुरागविरागौ नाद्रियेते, किन्तूपकार इत्यर्थः । उक्तञ्च " यावदुपकरोति तावन्मित्रं भवति । उपकारलक्षणं हि मित्रं, न मित्रं मित्रभावादुत्क्रान्तम्" (कौटि अर्थ. ७-८-११६) इति ॥ ७७ ॥ मित्रत्यागोऽपि नाविचार्येत्याह -- मित्रमिति । धर्मार्थावुपहन्ति स इति । अदुष्टदूषणाद्धर्मं हन्ति, तत्परित्यागाच्चार्थम् ॥ ७८ ॥ १. 'समुच्छि' क. पाठः. २. 'हि' क. पाठः