पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ११९ त्रयोदशं प्रकरणम् । आकीर्ण मण्डलं सर्व मित्रैररिभिरेव च ।

सर्वः स्वार्थपरो लोकः कुतो मध्यस्थता कचित् ॥ ७३ ॥ भोगप्राप्तं विकुर्वाणं मित्रमप्येवपीडयेत् । अत्यन्तविकृतं हन्यात् स पापीयान् रिपुर्मतः ॥ ७४ ॥ या । प्रकृतीरात्मीया इति सम्बन्धः, मित्रतन्मित्रप्रकृतीरित्यर्थः । परकीयाः शत्रुत- न्मित्रप्रकृतीः ॥ ७२ ॥ कस्मात् पुनरेवं द्विधा समाचरेदिति चेद् अरिमित्रमण्डलस्य व्याप्तत्वात् । यदाह - आकीर्णमित्यादि । मण्डलं द्वादशराजकम् । सर्वः स्वार्थपरो लोकः यो मण्डले समवेतः, योऽपि परस्यारिणा विगृहीतस्यानुबलाधानेनार्थं साधयति, सोऽपि मा भून्ममाप्युच्छेद इति स्वार्थपर एव प्रवर्तते । स्वार्थं च परस्मात् सिषाधयिषुः मैत्रया वैरेण वा साधयेद्, उपायान्तराभावात् । तस्मात् परतः स्वार्थसाधनाय मण्डले समवेतस्यानियतोऽरिमित्रभाव इति कुतो मध्यस्थता । मध्यमोदासीनावपि राजानावरिमित्र विशेषत्वात् तदव्यतिभिन्नावेव । यत्तूच्यते- 66 'मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः । उत्पद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः " || इति। तंत्र विजिगीषोरवस्थामाश्रित्य यो नापकरोत्युपकरोति वा, स उदासीनः । स यदा परस्मादर्थ(म)समीहमानः स्वभूमावेव स्वकीयकर्मानुष्ठानपर आस्ते, तदा निरहित्वान्नैव मण्डलेऽन्तर्भाव्यते । यदा कार्यसम्भववशात् तस्यापि स्वार्थसाधनाय सामादयः प्रयुज्यन्ते, तदास्य साध्यमानस्यारिमित्रभावयोरन्यतररूपेणावस्थानात् कुतो माध्यस्थ्यमिति द्वाभ्यामेव मण्डलं व्याप्तम् ॥ ७३ ॥ इदानीं मित्रमण्डलमधिकृत्य साध्ये चतुर्दशभिः श्लोकैर्वृत्तिमाह - भोग- प्राप्तमित्यादि । अतिवृद्धिप्राप्तत्वादुत्तिष्ठमानम् । अवपीडयेत् नियमयेदित्यर्थः । अत्यन्तविकृतं हन्यात् । अत्युपचरितस्य ह्यरिलक्षणं प्राप्तस्योच्छेदेऽपि नाधर्मः, पापीयस्त्वात् ॥ ७४ ॥ १. 'वै' स्व.ग. पाठः. २. 'प्युपपी' क, पाठः.