पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [अष्टमः ११८ कामन्दकीय नीतिसारे यस्मिन्नुच्छिद्यमाने तु रिपुरन्यः प्रवर्त्तते । न तस्योच्छित्तिमातिष्ठेत् कुर्वीतैनं स्वगोचरम् ॥ ६७ ॥ वशं गतो रिपुर्यश्च विचलेद् दुरुपग्रहः । तस्य संयमनायाशु तत्कुलीनं समुन्नयेत् ॥ ६८ ॥ विषं विषेण व्यथते वज्रं वज्रेण भिद्यते । गजेन्द्रो दृष्टसारेण गजेन्द्रेणैव बध्यते ॥ ६९ ॥ मत्स्यो मत्स्यमुपादत्ते ज्ञातिर्ज्ञातिमसंशयम् । रावणच्छित्तये रामो विभीषणमपूजयत् ॥ ७० ॥ यस्मिन् मण्डलसंक्षोभः कृते भवति कर्मणि । न तत् कुर्वीत मेधावी प्रकृतीरनुरञ्जयेत् ॥ ७१ ॥ साम्ना दानेन मानेन प्रकृतीरनुरञ्जयेत् । आत्मीया भेददण्डाभ्यां परकीयास्तु भेदयेत् ॥ ७२ ॥ यस्मिद्यमाने विजिगीषुणा, रिपुरन्यः प्रवर्त्तते तदानीं भूम्यनन्त- रात् परतो राज्ञः । स्वगोचरम् आत्माधीनम् ॥ ६७ ॥ यद्यात्मीयः कृतोऽपि दुरुपग्रहाद् विकुरुते, तदा विधिमाह - वशं गत इत्यादि । संयमनाय नियमनाय तत्कुलीनं समुन्नयेद् उपगृह्योत्थापयेदित्यर्थः ॥१६८|| तदेव दृष्टान्तेन स्फुटयन्नाह - विषमित्यादि । सारः सामर्थ्यम् ॥ ६९ ॥ विभीषणमपूजयदिति । रावणेन खलीकृत्य निर्वासितं विभीषणं समुद्रस्योत्तरे तीरे रामो लङ्काराज्येऽभिषिक्तवानिति प्रसिद्धमेतत् ॥ ७० ॥ सङ्क्षेपेणापवादमाह यस्मिन्नित्यादि । उच्छेदादिकर्मणामन्यतमे क्वचित् कचित् कृते सति । प्रकृतीरनुरञ्जयेत्, अन्यथा तत्क्षोभकरं कर्मानुतिष्ठन् कथ- ममात्यादिप्रकृतिध्वनुरागं जनयेत् ॥ ७१ ॥ स्वपरप्रकृतीरधिकृत्य श्लोकद्वयेन वृत्तिमाह-- साम्नेत्यादि । मानेन पूज- १. ख-ग. पाठः. २. 'र्यातु' क. पाठः ३. 'य त' क ख ग घ पाठः,