पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] त्रयोदशं प्रकरणम् । ११७ कर्शनं पीडनं काले कुर्वीताश्रयमानिनः । समाश्रयं दुर्गमाहुर्मित्रं वा साधुसम्मतम् ॥ ६३ ॥ विभीषणस्य सोदर्यस्तथा सूर्यसुतस्य च । सर्वतन्त्रापहारित्वात् तथोच्छेद्यो निजो रिपुः ॥ ६४ ॥ छिद्रं मर्म च वीर्ये च स जानाति निजो रिपुः । दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः ॥ ६५ ॥ बलिना विगृहीतस्य जिगीषुः कृच्छ्रवर्तिनः । कुर्वीतोपचयं शत्रोरात्मोच्तिविशङ्कया ॥ ६६ ॥ नन्तरः शत्रुः *यदानपाश्रयो वा शक्यो वा समुच्छेत्तुम्, अरिसम्पद्युक्तत्वात् तदोच्छेदनीयः ॥ ६२ ॥ आश्रयमानिन इति । सापाश्रयस्य पीडनं बलवदपाश्रयस्य वा कर्शनमिति पूर्वोक्तविपर्ययेणाश्रयमानिनो योजनीयम् । यः अरिसम्पद्युक्तविपर्ययो विजि- गीषुगुणान्वितस्तस्याशक्यत्वादपचयं कुर्यादित्यर्थादापन्नम् । कः पुनः समाश्रय इत्याह --- समाश्रयमिति । साधुसम्मतं तद्धि समाश्रयणीयं भवति ॥ ६३ ॥ यथा भूम्यनन्तरः प्रकृत्यमित्र उच्छेद्यः, तथा सहजोऽपीत्याह - विभीषणस्येत्यादि । सोदर्यो भ्राता रावणो विभीषणस्य, वाली सूर्यसुतस्य । तौ हि सर्वे राज्यमपहृत्य लङ्काकिष्किन्धानिवासिनौ स्थितावाभ्यां रामसमाश्रयादुच्छिान्नावित्यतिप्रतीतमेतत् ॥ ६४ ॥ अनुच्छिन्नश्चेच्छिद्रादिकं प्राप्य हन्तीत्याह --- छिद्रमित्यादि । छिद्रं रक्षाशैथिल्यम् । मर्म दुश्चेष्टितं, यद् विनाशकरम् । वीर्यं सारम् । अन्तर्गतः प्रत्यासन्नः । दहति हन्ति । कार्यजोऽपि यदि महापराधी स्याद् रामस्येव रावणः । सोऽप्युच्छेद्य इति बोद्धव्यम्, अन्यथा कर्शनीयः पीडनीयो वेति ॥ ६५ ॥ 1 - उच्छेदापवादमाह – बलिनेत्यादि । विगृहीतस्य शत्रोरिति सम्बन्धः । कृच्छ्रवर्तिनः सर्वतो निःष्पन्दीकृतस्य । उपचयम् अनुबलाधानम् । आत्मोच्छित्ति- विशङ्कया, (न) तमुच्छिद्यमानमप्युच्छिन्द्याद् बलवत्त्वादिति ॥ ६६ ॥ १. ‘न्तःस्थित' ख-ग. पाठः .

  • यदेति । ‘यदानपाश्रयो दुर्बलाश्रयो वा शक्यः समुच्छेत्तुम्' इत्यर्थकः पाठः स्यात्.