पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 116[अष्टमकामन्दकीय नीतिसारे समुत्पन्नेषु कृच्छ्रेषु सम्भूय स्वार्थसिद्धये । आपत्प्रतरणं सम्यक् सङ्घधर्म इति स्थितिः ॥ ५७ ॥ सहजः कार्यजश्चैव द्विविधः शत्रुरिष्यते । सहजः स्वकुलोत्पन्न इतरः कार्यजः स्मृतः ॥ ५८ ॥ उच्छेदेनं चापचयः पीडनं कर्शनं तथा । इति विद्याविदः प्राहुः शत्रौ वृत्तं चतुर्विधम् ॥ ५९ ॥ ॥ उच्छेदनं तु विज्ञेयं सर्वप्रकृतिनाशनम् । नाशो योग्यनरादीनां बुधैरपचयः स्मृतः ॥ ६० ॥ रेचनं कोशदण्डाभ्यां महामात्रवधस्तथा । एतत् कर्शनमित्याहुराचार्याः पीडनं परम् ॥ ६१ ॥ समाश्रयविहीनो वा दुर्बलं वा समाश्रितः । शक्यो ऽरिसम्पदा युक्त उच्छेत्तुं भूम्यनन्तरः ॥ ६२ ॥ सङ्घधर्मस्वरूपमाह - समुत्पन्नेष्वित्यादि । कृच्छ्रेषु वलवत्पराभियोगादिषु । प्रतरणं निर्वहणम् ॥ ५७ ॥ पुनः शत्रुमण्डलमधिकृत्य वैशेषिकीं वृत्तिं त्रयोदशभिः श्लोकैराह - सहज इत्यादि । तृतीयस्तु शत्रुः प्रकृत्यमित्रः । स च भूम्यनन्तरत्वात् प्रागुक्तः । स्वकुलोत्पन्नः एकानिषत्वाद् रावणस्येव विभीषणो दूरस्थस्तद्देशस्थो वा सहजः शत्रुः । इतर इति । न भूम्यनन्तरः स्वकुल्यो वा, किन्त्वपराधकारणात्, यो रामस्येव रावणः । स कार्यजः कृत्रिम इत्यर्थः ॥ ५८ ॥ ५९ ॥ उच्छेदनं स्थानप्रच्यवनम् । अपचयो योग्यपुरुषादीनां क्षयः ॥ ६० ॥ पीडन कर्शनयोर्लक्षणमाह - रेचनमित्यादि । महामात्रवधः प्रधाननायक- व्यापादनम् । पीडन परमिति । कर्शनात् परं पडिनं मूलवर्जदेशविलोपनम् ॥ ६१ ॥ एतच्चतुर्विधं कदानुष्ठातव्यमित्याह - समाश्रयविहीन इत्यादि । भूम्य- १. 'स' क. पाठः. २. 'दापचयौ काले पी ख-ग. पाठः. ३. 'आशाखण्डनयोगस्तु बु' ख.ग. पाठः.