पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]११५

त्रयोदशं प्रकरणम् । प्राधान्येन हि सर्वत्र सर्वाः संरञ्जयेत् प्रजाः । तासां संवर्जनाद् राजा सर्वाङ्गीं श्रियमश्नुते ॥ ५३ ॥ दूरेचरान् माण्डलिकांस्तथान्यान् दुर्गवासिनः । मित्रीकुर्वीत तत्प्राणाः साधयन्तीह मण्डलम् ॥ ५४ ॥ चलेच्चेदूर्जितबलो मध्यमो विजिगीषया । एकीभूयारिणा तिष्ठेदशक्तः सन्धिना नमेत् ॥ ५५ ॥ उदासीने विचलति सर्वे मण्डलिनः सह । सङ्घधर्मेण तिष्ठेयुः सन्नमेयुरशक्तयः ॥ ५६ ॥ शत्रोर्मित्रस्य च मण्डले सर्वाः प्रजाः सर्वजनं महान्तं मध्यममवरं चानुग्रहादिभिः स्वराष्ट्रे संश्लेषं नयेत् । तासां संवर्जनादिति । स्वराष्ट्रे प्रजानां निवेशनात् । सर्वाङ्गीं, कोशदण्डाभ्युपेतत्वात् । उक्तञ्च " कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदादुत्तिष्ठन्त" (कौटि. अर्थ. ८-१-१२७) इति ॥ ५३ ॥ दूरेचरानिति । विजिगीषुमण्डलाद बहिर्वर्तमानान् । माण्डलिकान् स्वमण्डलाधिपतीन् राज्ञः । दुर्गवासिनः अनुच्छेद्यान् । तत्प्राणाः तत्कृतावष्टम्भाः विजिगीषवः । इह मण्डलमिति विजिगीषुभूमावर्यादिमण्डलं व्युत्थिष्ठमानं नियमयति ॥ ५४ ॥ मध्यमोदासीनावधिकृत्य वृत्तिमाह – चलेदित्यादिना श्लोकत्रयेण । ऊर्जितबलः उद्यतसैन्यः । सम्भूयारिणा तिष्ठेद् विजिगीषुरित्यर्थात् । अरिविजिगीष्वोः संहतयोर्निग्रहे मध्यमस्यासमर्थत्वात् । अशक्तः सन्धिना नमेत्, यदा न शत्रुणा संहतासंहतयोर्निग्रहे मध्यमस्याशक्त (त्वात् ? त्वम् ) ॥ ५५ ॥ उदासीने विचलति । सतीति योज्यम् । सर्वे मण्डलिनः अरिविजिगीषुमध्यमाः । सङ्घधर्मेण एकीभावेन, तेषां हि संहतानां निग्रहे उदासीनस्यासमर्थत्वात् । सन्नमेयुरशक्तयः, यदा परस्परविश्लिष्टाः ॥ ५६ ॥ १. ' वर्जये' क-घ, पाठः, २. ' त्रं कु' ख-ग. पाठ:..