पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [अष्टमः कामन्दकीय नीतिसारे मित्रेण चात्मना चैव कुर्वीतोद्धरणं रिपोः ।

मित्रेण हि समित्रेण रिपुमित्रं प्रपीडयेत् ॥ ४७ ॥ अरिमित्रस्य मित्रस्य पीडनं पृथिवीपतिः । कुर्वीतोभयमित्रेण मित्रमित्रेण चैव हि ॥ ४८ ॥ अनेन क्रमयोगेन विजिगीषुः सदोत्थितः । पीडयेदहितं शत्रुं मित्राणामन्तरान्तरा ॥ ४९ ॥ पीड्यमानो ह्युभयतः सदोद्युक्तैर्मनीषिभिः । रिपुरुच्छेदमायाति तद्वशे वावतिष्ठते ॥ ५० ॥ सर्वोपायेन कुर्वीत सामान्यं मित्रमात्मसात् । भवन्ति मित्रादुच्छिन्नाः सुखोच्छेद्या हि विद्विषः ॥ ५१ ॥ कारणेनैव जायन्ते मित्राणि रिपवस्तथा । रिपवो येन जायेरन् कारणं तत् परित्यजेत् ॥ ५२ ॥ समित्रेणेति । मित्रेण मित्रमित्रेण चेत्यर्थः ॥ ४७ ॥ अरिमित्रस्य मित्रस्येति । अरिमित्रमित्रस्येति यावत् । उभयमित्रेणेत्यस्य स्फुटीकरणार्थमाह - मित्रमित्रेण चैव हीति ॥ ४८ ॥ उत्थितः उद्युक्तः । अहितं प्रातिकूल्येनावस्थितम् । अन्तरान्तरा मित्रयोर्मध्ये मध्ये ॥ ४९ ॥ एवं सति किं भवतीत्याह - पीड्यमान इत्यादि । मनीषिभिः । मित्रैरिति शेषः ॥ ९० ॥ 1 एवं तावदसाधारणमित्रापेक्षया क्रम उक्तः । इदानीं साधारणमित्रापेक्षया क्रममाह – सर्वोपायेनेति । शत्रौ विजिगीषौ च वर्तमानं सामान्यं मित्रं बहुभि- रुपायैरात्मसात्कृत्यानेन शत्रुं पीडयेत् । यदाह - मित्रादुच्छिन्ना इति । स्वीकृता- न्मित्राद् वियोजिता हि सूच्छेदा भवन्ति, मित्रापेक्षाभावात् ॥ ५१ ॥ ननु च यो यस्य मित्रं स तस्मात् (कस्माद्) वियुज्यत इति चेत्, शत्रु- मित्रव्यवहारस्यानिसर्गसिद्धत्वात् । यदाह - कारणेनैवेत्यादि ॥ ५२ ॥ १. ' सहमि' खन्ग. पाठः.