पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] ११३ त्रयोदशं प्रकरणम् ।

  • १३ मण्डलचरितप्रकरणम् *

पार्ष्णिग्राहस्तदासारः शत्रुमित्रे प्रकीर्तिते । आक्रन्दोऽथ तदासारो विजिगीषोरुदाहृते ॥ ४३ ॥ पुरो यायाद् विगृह्यैव मित्राभ्यां पश्चिमावरी । पश्चिमाविव पूर्वाभ्यामरिं तन्मित्रमेव च ॥ १४ ॥ अरिमित्रस्य मित्रं तु कृतकृत्येन भूयसा । संस्तम्भ्योभयमित्रेण पश्चाद् गच्छेन्नरेश्वरः ॥ ४५ ॥ आक्रन्देनात्मना चैव पार्ष्णिग्राहं प्रपीडयेत् । आक्रन्देन तदासारमाक्रन्दासारभागिना ॥ ४६ ॥

तस्मिन् मण्डले तद्विशुद्ध्यर्थ कथं वर्त्ततेति षाड्गुण्यंव्यापाररूपं मण्डलचरितमुच्यते, तत्र पार्ष्णिग्राहादीनां शत्रुमित्रतायां प्राग् विशेषस्यानुक्तत्वात् । यदाह- पार्ष्णिग्राह इत्यादि । शत्रुमित्रे इति । शत्रोर्मित्रे इत्यर्थः । विजिगीषोरुदाहृते मित्रे इत्येव ॥ ४३ ॥ तंत्र द्वादशराजके शत्रुमण्डलमधिकृत्य वृत्तिमेकादशभिः लोकैराह - पुरो यायादित्यादि । विगृह्यैवेति अन्तर्भावितण्यर्थत्वाद् विब्राह्मैवेत्यर्थः । मित्राभ्यां पश्चिमावरी इति । पार्ष्णिग्राहमाक्रन्देन आक्रन्दासारेण पार्ष्णिग्राहासारमिति यावत् । पश्चिमाविव पूर्वाभ्यां मित्राभ्यां पूर्वावरी विशुद्धेति सम्बन्धः । कौ तावित्याह- अरिं तन्मित्रमेव चेति । मित्रेण शत्रु मित्रमित्रेण चारिमित्रमित्यर्थः ॥ ४४ ॥ अरिमित्रस्य मित्रमिति । अरिमित्रमित्रम् उभयमित्रेण संस्तम्भ्येति सम्बन्धः । तस्य विशेषणं कृतकृत्येन भूयसेति । अन्यथा समाप्तिस्वकार्यस्य स्वल्पतन्त्रस्य वा कथमुभयतो व्यापारः स्यात् । उभयमित्रेणेति विजिगीपोर्मित्रस्य चोभयोर्मित्रत्वात् । मित्रमित्रेणेत्यर्थः । यस्तूभयसुहृत् प्रागुक्तः, सोऽरिविजिगीष्वपेक्षया । पश्चाद् गच्छेत् । यातव्यमित्यर्थात् सिद्धम् ॥ ४९ ॥ 1 एवं तावदेकपार्श्वतो विधिरुक्तः । इदानीमुभयत्राप्याह - आक्रन्देनेत्यादि । आत्मनेति विजिगीषुमाह । आक्रन्देन तदासारमिति । पाणिग्राहासारम् । . आक्रन्दासारभागिनेति आक्रन्दविशेषणम् । आक्रन्दासारसहितेनेति यावत् ॥४६॥ १. 'ण्यरू' क ख ग घ पाठः.