पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११२ [अष्टमः कामन्दकीय नीतिसारे परस्पराभियोगेन विजिगीषोररेस्तथा । अरित्वविजिगीषुत्वे एका प्रकृतिरित्यतः ॥ ४० ॥ इतिप्रकारं बहुधा मण्डलं परिचक्षते । सर्वलोकप्रतीतं हि स्फुटं द्वादशराजकम् ॥ ४१ ॥ अष्टशास्त्रं चतुर्मूलं षष्टिपत्रं द्वये स्थितम् ।

षट्पुष्पं त्रिफलं वृक्षं यो जानाति स नीतिवित् ॥ ४२ ॥ (इति मण्डलयोनिर्नाम द्वादशं प्रकरणम् ) यथा विजिगीषुरभियुङ्क्ते, तथा शत्रुरपि प्रत्यभियुङ्के इति परस्पराभियोगित्वम् । ततश्च तस्यामवस्थायां द्वयोरेकरूपत्वादेका प्रकृतिरिति पराशरः । एकसङ्ख्यं मण्डलमिति यावत् ॥ ४० ॥ इतिप्रकारमिति एवं भेदम् । इदानीं सर्वमण्डलसङ्ग्राहि मण्डलमाह - स्फुटं द्वादशराजकमिति । स्फुटं युज्यमानकम् । कस्मादिति चेत् सर्वलोकप्रतीतत्वात् । तथाहि - तद्व्यतिरेकेणान्यस्य सर्वस्याप्यप्रसिद्धत्वाद् इहैवं सङ्ग्रहः । यथा -येऽपि म(य? हर्षि) प्रोक्ते षट्त्रिंशत्के मण्डलेऽभ्यधिका 'अरिमित्रे पृथक् पृथगि' ( स. ८. श्लो. २२) ति, गुरुप्रोक्ते चाष्टादशके 'संयुक्तस्त्वरिमित्राभ्यामुभयारिस्तथा सुहृदि' (स. ८. श्लो. २६) ति, तथा विशालाक्षभाषिते चतुष्पञ्चाशत्के 'मित्रशत्रू पृथक् पृथग्' (स. ८. लो. २८) इति तेऽप्यर्यादीनामेव समन्ततो मण्डलीभूय तथावस्थितत्वादिति द्वादशराजकादप्यतिभिन्ना अमात्यादयोऽपि द्रव्यप्रकृतित्वात् तदवयवभूता इति द्वादशराजकमेव सर्वथा प्रतिपद्यते । तथा चौशनसम् अष्टशाखं चतुर्मूलं षष्टिपत्रं द्वये स्थितम् । षट्पुष्पं त्रिफलं वृक्षं यो जानाति स नीतिवित् ॥ इति । तत्र मित्रादिभिश्चतुर्भिः पाणिग्राहादिभिश्चतुर्भिश्चाष्टशास्त्रम् । अरिविजिगी- षुमध्यमोदासीनैश्चतुर्मूलम् । द्रव्यप्रकृतिभिर्मूलशाखाश्रिताभिः षष्टिपत्रम् । दैवे मानुषे च कर्मणि स्थितम् । षड्गुणाः पुष्पाण्यस्येति षटपुष्पम् । क्षयस्थानवृद्धयस्तिस्रः फलान्यस्येति त्रिफलम् । यो जानाति स नीतिविद् । एतावन्मात्रत्वान्नयशरीरस्येति ॥ ४२ ॥ (इति मण्डलयोनिर्नाम द्वादशं प्रकरणम् )