पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वादशं प्रकरणम् । १११ विजिगीषोः पुरस्ताच्च ये च पश्चात् प्रकीर्त्तिताः । दशकं मण्डलमिदं मण्डलज्ञाः प्रचक्षते ॥ ३५ ॥ दशानां भूमिपालानाममात्याद्याः पृथक् पृथक् । मण्डलं मण्डलविदः षष्टिसङ्ख्यं प्रचक्षते ॥ ३६ ॥ प्राग्यौ द्वौ विजिगीषुश्च पश्चिमौ चेति पञ्चकम् । अमात्याद्याः पृथक् चैषां त्रिंशत्कं हि प्रचक्षते ॥ ३७ ॥ अरेरप्येवमेवेति दृष्टं दृष्टिमतां वरैः । पञ्चकं मण्डलं न्याय्यं त्रितयं च मनीषिभिः ॥ ३८ ॥ द्वे एव प्रकृती न्याय्ये इत्युवाच पराशरः । अभियोक्तृप्रधानत्वात् तथान्यो योऽभियुज्यते ॥ ३९ ॥ राजानः । जगत्यक्षरसम्मिता इति । जगती नामच्छन्दोवृत्तिरष्टाचत्वारिंशदक्षरा, तत्सङ्ख्यं मण्डलं भवतीत्यर्थः ॥ ३४ ॥ दशकं मण्डलं मध्यमोदासीनावपास्य योज्यम् ॥ ३५ ॥ षष्टिसङ्खयमिति । दश राजप्रकृतयः, पञ्चाशद् द्रव्यप्रकृतयः ॥ ३६ ॥ पञ्चकमिति । विजिगीषुः शत्रुमित्रे पाणिग्राहाक्रन्दौ चेत्यर्थः । त्रिंशत्किति । पञ्च राजप्रकृतयः पञ्चविंशतिर्द्रव्यप्रकृतयः ॥ ३७ ॥ अरेरप्येवमेवेत्यतिदेशः । सोऽपि विजिगीषुवन्मण्डलं चिन्तयतीति तस्याप्ययं यथोक्तभेदो द्रष्टव्यः । एषां कतमन्न्याय्यमिति परमतेनाह - पञ्चकमित्यादि । आक्रन्देन पाणिग्राहं निवर्त्य शुद्धपृष्ठस्य मित्रेण चोत्पादितकोपं शत्रु पश्चादभि युञ्जानस्य विजिगीषोः कार्यसंसिद्धिरिति पञ्चकं न्याय्यम् । त्रितयं चेति । अरिम- भियुञ्जानस्य मध्यमेनैवैकेन शत्रुसिद्धिरिति तद् न्याय्यम् ॥ ३८ ॥ द्वे एव प्रकृती इति । अरिविजिगीषू । तत्राभियोक्तृत्वाद् विजिगीषुः प्रधानम् । इतरश्चाप्रधानम् अभियोज्यत्वात् । शेषाश्च स्वस्वमण्डलान्तर्गतत्वाद- भियोक्रभियोज्ययोरेवानुप्रविष्टाः ॥ ३९ ॥ १. 'ष एव स्याद् दृष्टो दृ' ख.ग. पाठः,