पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११० अष्टमः कामन्दकीय नीतिसारे चतुष्पञ्चाशतो राज्ञाममात्याद्याः पृथक् पृथक् । सचतुर्विंशतीदं हि मण्डलं त्रिशतं मतम् ॥ २९ ॥ सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च तत् । चतुर्दशकमेवेह मण्डलं परिचक्षते ॥ ३० ॥ मण्डलं त्रिकमित्याहुर्विजिगीष्वरिमध्यमाः । मित्रयुक्ताः पृथक् चैते षट्कमित्यपरे जगुः ॥ ३१ ॥ अमात्याद्याः प्रकृतयं एकैकस्यैव भूपतेः । मण्डलं मण्डलविदः षट्त्रिंशत्कं प्रचक्षते ॥ ३२ ॥ सप्तप्रकृतिकाः सर्वे विजिगीष्वरिमध्यमाः । एकविंशतिरित्याहुरपरे परिवादिनः ॥ ३३ ॥ चत्वारः पार्थिवा मौलाः पृथङ्क्षित्रैः सहाष्टकम् । अमात्यादिभिरेते च जगत्यक्षरसम्मिताः ॥ ३४ ॥ [ सचतुर्विंशति त्रिशतं मण्डलमिति । मौलाश्चतुष्पञ्चाशद् राजानः, द्रव्यप्रकृतयश्च सप्ततिशतद्वयमित्यर्थः ॥ २९ ॥ विजिगीषोररेश्च सप्तप्रकृतिकमित्येवम् । ततश्चतुर्दशकं भवति, तावति कार्यस्य चिन्त्यमानत्वात् ॥ ३० ॥ तथा त्रिकेऽपि मण्डले । मित्रयुक्ता इति । यदा तन्मित्राण्यपेक्ष्य चिन्ता, तदा षट्कं परं भवति ॥ ३१ ॥ षट्त्रिंशत्कमिति । अनन्तरोक्ताः षड् राजप्रकृतयः, त्रिंशच्च द्रव्यप्रकृतयः ॥ ३२ ॥ सप्तप्रकृतिकाः सर्वे आत्मप्रक्षेपात् ॥ ३३ ॥ चत्वारो मौलाः अरिविजिगीषुमध्यमोदासीनाः । एते चेति । अष्टौं १. 'चतुर्विंशतिसंयुक्तं म' खग. पाठः २. 'यश्चैकैकस्येह भू' क. पाठः. ३. 'ट्कमिति भ' इ.च. पाठः