पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वादशं प्रकरणम् । द्वादशानां नरेन्द्राणां पञ्च पञ्च पृथक् पृथक् । अमात्याद्याश्च प्रकृतीरामनन्तीह मानवाः ॥ २४ ॥ मौला द्वादश चैवैता अमात्याद्यास्तथा च याः । सप्ततिधिका ह्येषां सर्वप्रकृतिमण्डलम् ॥ २५ ॥ संयुक्तैस्त्वारमित्राभ्यामुभयारिस्तथा सुदृत् । मौला द्वादश राजान इत्यष्टादशकं गुरुः ॥ २६ ॥ अष्टादशानामेतेषाममात्याद्याः पृथक् पृथक् । अष्टोत्तरशतं ह्येतन्मण्डलं कवयो विदुः ॥ २७ ॥ एतेऽष्टादश चैतेषां शत्रुमित्रे पृथक् पृथक् । चतुष्पञ्चाशत्कमिति विशालाक्षः प्रभाषते ॥ २८ ॥ पञ्च पञ्चेति अमात्याद्याः प्रकृतीरामनन्ति कथयन्ति ॥ २४ ॥ सप्ततिर्द्व्यधिकेति । षष्टिर्द्रव्यप्रकृतयः द्वादश च राजप्रकृतय इत्यर्थः । सर्वप्रकृतिमण्डलमिति । राज्ञां प्रकृतीनां च समुदायस्य चिन्त्यमानत्वात् सर्वं प्रकृ-िमण्डलमाहुर्मानवाः ॥ २५ ॥ उभयारिस्तथा सुहृदिति । अरिविजिगीष्वोश्चोभयोरुपकारापकारित्वादरिर्मित्रं च । तयोः पार्श्वतोऽरिमित्रयोः स्थानं कल्पनीयम् । तद्बहिश्च तदरिमित्रयोरित्येवमेते षट् । मौलाश्च द्वादशेत्यष्टादशकं भवति ॥ २६ ॥ अष्टोत्तरशतमिति । अष्टादश राजप्रकृतयो नवतिश्च द्रव्यप्रकृतय इति ॥ २७ ॥ शत्रुमित्रे पृथक् पृथगिति । (उभयारेरुभयमित्रस्य चारिमित्रे प्रागुक्ते परित्याज्ये एव । शत्रुमित्रे पृष्ठतः स्थाप्ये । तदरिमित्रयोश्च मित्रशत्रवस्त्रिंशत् ?) मौलाश्चाष्टादशेति चतुष्पञ्चाशत्कं मण्डलं भवति ॥ २८ ॥ १. 'याः प्रोक्ता अ' क. पाठः २ - तं चारि' ख-ग. पाठः ३. 'मित्रशबू पृ' क. पाठः.