पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०८ कामन्दकीयनीतिसारे अष्टमः मूलप्रकृतयस्त्वेताश्चतस्रः परिकीर्त्तिताः । आहैतत् तन्त्रे कुशलश्चतुष्कं मण्डलं मयः ॥ २० ॥ विजिगीषुररिर्मित्रं पार्ष्णिग्राहोऽथ मध्यमः । उदासीनः पुलोमेन्द्रौ मण्डलं षट्कमूचतुः ॥ २१ ॥ उदासीनो मध्यमश्च विजिगीषोश्च मण्डलम् । उशना मण्डलमिदं प्राह द्वादशराजकम् ॥ २२ ॥ द्वादशानां नरेन्द्राणामरिमित्रे पृथक् पृथक् । षटूत्रिंशत्कमिति प्राहुस्ते च ते च महर्षयः ॥ २३ ॥ इदानीमेतेष्वेव पूर्वाचार्यमतेन मण्डलव्यवस्थाभेदमाहाष्टादशभिः श्लोकैः । मूलप्रकृतय इत्यादि । चतस्र इति अरिविजिगीषुमध्यमोदासीनाः । शेषाश्चाष्टौ शाखावदत्रैव प्रतिबद्धाः । तत्र मित्रमाक्रन्दस्तदासारश्च विजिगीषौ, शेषाः शत्रौ प्रतिबद्धाः । तस्माच्चतुष्कं मण्डलमिति मयः ॥ २० ॥ पुलोमेन्द्रौ पट्कमिति । अरिविजिगीषू मध्यमोदासीनाभ्यामनुगृहीतौ यदा परस्परं सन्धायासन्धाय वा स्वं स्वं शत्रुमभियुञ्जाते, तदैव राज्ञोऽधिकृतचिन्तेति षट्कं मण्डलं भवति ।। २१ ॥ विजिगीषोश्च मण्डलमिति दशराजकम् । एवं मन्यते --- द्वादशसु राजसु स्वमण्डलानुग्राहितया व्यवस्थितेषु यदारिविजिगीषू परस्परमतिसन्धातुकामौ व्युत्तिष्ठेते, तदा सर्वस्य चलनाद् द्वादशराजकमधिक्रियत इति यावन्मात्रकमाश्रित्य कार्य चिन्त्यते, तावन्मात्रकमेव मण्डलं भवितुमर्हति ॥ २२ ॥ एवञ्च सत्याचार्याणां मतभेदः अरिमित्रे पृथक् पृथगिति । कार्यसम्भव- वशादेकैकस्यान्यतरपार्श्वतोऽन्ये शत्रुमित्रे योजयितव्ये इति । ते च ते चेति । द्वादश चतुर्विंशतिश्च राजानः षट्त्रिंशत्कं भवति ॥ २३ ॥ १. 'त्र' ख-ग, पाठः.