पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वादशं प्रकरणम् ।१०७ पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरः । आसारावनयोश्चेति विजिगीषोस्तु पृष्ठतः ॥ १७ ॥ अरेश्च विजिगीषेोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्य स्तयोर्निग्रहे प्रभुः ॥ १८ ॥ मण्डलाद् बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥ १९ ॥

पृष्ठतः किंसंज्ञका इत्याह- - पार्ष्णीत्यादि । विजिगीषोः शत्रुमभियुञ्जानस्य शत्रुहिताय पार्ष्णि गृह्णातीति पार्ष्णिग्राहः शत्रुमित्रम् । आगत्य पाष्णिग्राहं मे वारयेति विजिगीषुणाक्रन्द्यते आहूयत इत्याक्रन्दो विजिगीषुमित्रम् | आसारावनयोश्चेति अनुबलदानेन पार्ष्णिग्राहमासरतीति पार्ष्णिग्राहासारोऽरिमित्रमित्रम् । तथा आक्रन्दासारो विजिगीषुमित्रमित्रम् इत्येतद् विजिगीषोर्मण्डलं तज्जेयत्वात् । विजिगीषुणा हि नवयोजनसहस्रप्रमाणं चक्रवर्त्तिक्षेत्रं जेतव्यम् । तत्रैते दश राजानः सम्भवन्तीति सम्भवापेक्षयैतावन्त उक्ताः । यदा ह्यधिकं जयति, तदा परतो लभ्यधिका भवन्ति ॥ १७ ॥ अत्रैव विशेषव्यवस्थामाह - अरेश्चेत्यादि । अरिविजिगीप्वोर्भूम्यनन्तर इति स्थाननिर्देशः तस्य विदिग्भागमाश्रित्य स्थितत्वात् । स च तयोर्भूम्यनन्तर- त्वाच्छत्रुरपि भिन्नलक्षणत्वान्मध्यमसंज्ञो भवति । अनुग्रह इति । संहतयोरसंहतयो - श्चेति शेषः । सन्धाय विगृह्य वा परं प्रति हन्तुकामयोररिविजिगीप्वोः कोशदण्डा- भ्यामनुग्रहे समर्थः । व्यस्तयोर्वध इति । असंहतयोरेकैकमेव निग्रहीतुं समर्थः, न तु द्वौ संहतौ तयोस्तद्विशिष्टबलत्वात् ॥ १८ ॥ मण्डलाद् बहिरेतेषामिति । अरिविजिगीषुमध्यमानां प्रकृतिभ्यो बहिरिति स्थाननिर्देशः । लक्षणमाह --- बलाधिक इति । मध्यमो बलवान्, तस्मादपि यो बलवत्तरः स उदासीनसंज्ञः । शेषं पूर्ववद् योज्यम् । तस्मादुदासीनात् परतोऽधिकतरो नास्ति । तस्माद् द्वादशैवैते राजानश्चक्रवर्त्तिक्षेत्रे सम्भवन्ति ॥ १९ ॥ १. 'सङ्गत' मूलकोशेषु पाठः. २. 'कान्वित.' ख-ग. पाठः. ३. 'सङ्गता' ख-ग. पाठः. ‘समर्थो व्यस्तयोर्वधे' इत्येव चतुर्थपादस्य पाठो व्याख्यातुरिति भाति, 'व्यस्तयोर्बंध' इति प्रतीकरणात् समर्थपदोपादानाच्च व्याख्याने.