पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०६ कामन्दकीयनीतिसारे [ अष्टमः

प्रतापयुक्तो नृपतिः प्राप्नोति महतीं श्रियम् । तस्मादुत्थानयोगेन प्रतापं जनयेत् प्रभुः ॥ १३ ॥ एकार्थाभिनिवेशित्वमरिलक्षणमुच्यते । दारुणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ॥ १४ ॥ लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखोच्छेद्यो रिपुः स्मृतः ॥ १५ ॥ अरिमित्रमरेर्र्मित्रं मित्रमित्रमतः परम् । 'मित्रारिमित्रमित्रं च विजिगीषोः पुरः स्मृताः ॥ १६ ॥ उत्थानेति उत्साहयोगेन, तत्कार्यत्वात् प्रतापस्य ॥ १३ ॥ यमरिं विजिगीषमाणो विजिगीषुस्तस्य लक्षणमाह-- एकार्थाभिनिवेशित्वमित्यादि । भूम्यनन्तरत्वादेकार्थाभिनिवेशिता । स च शत्रुर्द्विविधः दुरुच्छेदः सूच्छेदश्च । तत्र दुरुच्छेदमाह --- दारुण इति, दुरुच्छेद इत्यर्थः । विजिगीषुगुणान्वित इति । विजिगीषुगुणाः प्रागुक्ताः कौलीन्यादयः ॥ १४ ॥ सूच्छेदमाह --- लुब्ध इत्यादि । तत्र लुब्धः सम्प्रदानाभावादनाश्रयणीयः । क्रूरः सत्सङ्ग्रहाशीलः सतामनभिगम्यः । अलसः स्वयमेवावसीदति । असत्यः यथाप्रतिज्ञाताकरणान्मण्डलेनैवोपेक्ष्यते । प्रमादी स्वयमेव न भवतीति । भीरुर्दूरा- देवापसर्पति । अस्थिरः दुर्गुणः । मित्ररहितः निराश्रयत्वादभियोगमात्रसाध्यः । मूढः अज्ञानबहुलत्वादवसदिति । योधावमन्ता स्वयोधैरेव हन्यते ॥ १५ ॥ यथा शत्रुं विजिगीषते, तथा मित्रादीनपीति दर्शयितुं तन्मण्डलमाह चतुर्भिः श्लोकैः । अरिरित्यादि । तत्र विजिगीषोः समन्ततो मण्डलीभूतो भूम्यनन्तरः शत्रुः । तथैव भूम्येकान्तरितं मित्रम् । तथा तदनन्तरमरेर्मित्रम् । ततो मित्र- मित्रम् । विजिगीषोः पुरः स्मृता इति । यदा विजिगीषुररिमभियोक्तुं प्रवृत्तः, तदा पुरस्तादेते राजान एवंसंज्ञका व्यर्वेह्रियन्ते ॥ १६ ॥ १. 'दो रिपुर्मतः ' क. पाठः, २. 'स्थि' ख.ग. पाठः. ३. ' नह्यते' क ख ग घ पाठः ४. ‘पदिश्यन्ते ' ङ-च. पाठः + 'तथारि' इति पाठोऽग्निपुराणादौ.