पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] द्वादशं प्रकरणम् । १०५ अदीर्घसूत्रताक्षौद्र्यं प्रश्रयः स्वप्रधानता । देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता ॥ ८ ॥ सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता । अविसंवादिता शौर्यं भक्तिज्ञत्वं कृतज्ञता ॥ ९ ॥ शरणागतवात्सल्यममर्षित्वमचापलम् । स्वकर्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥ १० ॥ जितश्रमत्वं वाग्मित्वमक्रूरपरिवारता । प्रकृतिस्फीतता चेति विजिगीषोर्गुणोदयः ॥ ११ ॥ सर्वैर्गुणैर्विहीनोऽपि स राजा यः प्रतापवान् । प्रतापयुक्तात् त्रस्यन्ति परे सिंहान्मृगा इव ॥ १२ ॥ दीर्घसूत्रता उत्साहगुणः क्षिप्रकारितेत्यर्थः ।अक्षौद्यं गुणवत्सङ्ग्रहणशीलता । प्रश्रयः सादरता । स्वप्रधानता अनेयता ॥ ८ ॥ सर्वविज्ञानिता सर्वसमयवित्त्वम् । दाक्ष्यमुत्साहगुणः । ऊर्ज औदार्य, बलम् । शौर्यम् उत्साहगुणः । भक्तिज्ञत्वं भृत्यभक्त्यनुरूपानुष्ठानत्वम् ॥ ९ ॥ शरणागतवात्सल्यमिति । वात्सल्यं स्नेहः । अमर्षित्वम् उत्साहगुणः । स्वकर्मदृष्टशास्त्रत्वमिति । स्वकर्मणि विजिगीषणे यच्छास्त्रं षाड्गुण्याभिधायैकं, तदर्थतः प्रयोगतश्च दृष्टं येनेति समासः पश्चाद् भावप्रत्ययः । कृतित्वम् अशेषशास्त्रपरिज्ञानात् पाण्डित्यम् ॥ १० ॥ जितश्रमत्वं युद्धाध्वगमनादिष्वपरिरुग्णता । अक्रूरपरिवारता अक्षुद्रपरिषत्कता । प्रकृतिस्फीतता स्वसम्पदुपेतामात्यादिप्रकृतियुक्तता । शेषा गुणा व्याख्यातप्रायाः । एते गुणा राज्ञो विजिगीषावस्थायां प्राधान्येन व्याप्रियन्ते । तेन प्रागुक्तायामपि स्वामिसम्पदि न पुनरुक्ततादोषः । एवं सति केचित् तत्रानुक्ता अपीहोक्ताः चित्तज्ञताप्रश्रयभक्तिज्ञत्वादयः । तत्रोक्ता अप्यन्ये कार्यसम्भववशादिह नोक्ताः क्रोध लोभद्रोहवर्जनादयः ॥ ११ ॥ अत्राप्युत्साहः प्रधानमिति कार्यद्वारेण दर्शयितुं श्लोकद्वयमाह - सर्वैरित्यादि । गुणैरिति विजिगीषुगुणैः । स राजा विजगीषावस्थायां स्थित इति शेषः ॥ १२ ॥ १. 'न' डच पाठः. २. ' षास्थि' ग घ पाठः