पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०४ कामन्दकीय नीतिसारे [अष्टमः अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ ४ ॥ एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ ५ ॥ सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥ ६ ॥ कौलीन्यं वृद्धसेवित्वमुत्साहः स्थूललक्षता । चित्तज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥ ७ ॥

अमात्यादियुक्तो मण्डलं चिन्तयेदित्युक्तम् । तत्र राज्ञोऽमात्यादिपञ्चकस्य (चा) नयोः कस्य प्रधानगुणभाव इत्याह --- अमात्येत्यादि । एताः प्रकृतय इति । द्रव्य- प्रकृतित्वादेताः पञ्च विजिगीषोः स्वत्वेनोदाहृताः । मित्रं राजप्रकृतित्वात् स्वामि- प्रकृतावन्तर्भूतम् । तेन सप्त प्रकृतयो राजराज्यभेदाद् द्विधावस्थिताः । तथा चोक्तं --- “राजा राज्यमिति प्रकृतिसङ्क्षेप" (कौटि. अर्थ. ८-२-१२८) इति । तत्र राज्यम् अमात्यादिप्रकृतिपञ्चकम् । शेषा राजप्रकृतिः ॥ ४ ॥ - सप्तप्रकृतिकं राज्यमिति । एवं मन्यते यथा राज्यमित्यभिधानप्रत्यययोः प्रवृत्तिनिमित्तं द्रव्यप्रकृतयः, एवं राजप्रकृतिरपि । तस्मात् प्रकृतिसप्तकमेव राज्यमिति ॥ ५ ॥ कः पुनर्विजिगीषुरित्याह -- सम्पन्न इत्यादि । प्रकृतिभिरमात्यादिभिः । महोत्साह ग्रहणमन्यगुणभावेऽपि विजिगीषोरुत्साहोऽत्यन्तं प्रधानमिति दर्शनार्थम् । कृतश्रमः अनेकधा विजिगीषायाम् । जेतुमेषणशीलश्च । अन्यथा विजिगीषाभावाद राजैव स्यान्न विजिगीषुः ॥ ६ ॥ इदानीं विजिगीषुगुणानाह - कौलीन्यमित्यादिना श्लोकपञ्चकेन । तत्रोस्साहः प्रधानम् । तथा ह्यस्य गुणानस्मिन् सर्गे निर्देक्ष्यति । चित्तज्ञता पराभिप्रायज्ञता ॥ ७ ॥ १. 'जि' इति मूलकोशेषु पाठः,