पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथाष्टमः सर्गः ।

  • १२ मण्डलयोनिप्रकरणम् *

उपेतः कोशदण्डाभ्यां सामात्यः सह मन्त्रिभिः । दुर्गस्थाश्चिन्तयेत् साधु मण्डलं मण्डलाधिपः ॥ १ ॥ रोचते सर्वभूतेभ्यः शशीवाखण्डमण्डलः । सम्पूर्णमण्डलस्तस्माद् विजिगीषुः सदा भवेत् ॥ २ ॥ रथीव राजते राजा विशुद्धे मण्डले चरन् । अशुद्धे मण्डले सर्व शीर्यते रथचक्रवत् ॥ ३ ॥ एवं प्रतिष्ठितस्वराज्यस्य राज्ञः परराज्यलाभायेदानीं त्रयोदशभिः सर्गैरुपायः प्रदर्श्यते । स च षाड्गुण्यम् । तत्रास्मिन् सर्गे प्रकरणद्वयं मण्डलयोनिर्मण्डलचरितं च । तत्र षाड्गुण्यस्य मण्डलं कारणमिति मण्डलयोनिरुच्यते । यदाह- उपेत इत्यादि । द्रव्यप्रकृतियुक्तो मण्डलं चिन्तयेत् । तथा तत्सम्पूर्ण विशुद्धं च मण्डलं भवतीति सङ्क्षेपार्थः । तत्राद्यं प्रकरणं सम्पूर्णतार्थ, द्वितीयं विशुद्ध्यर्थम् । सामात्य इति सिद्धत्वान्मन्त्रिग्रहणं बुद्धिसचिवोऽत्यन्तमस्मिन् व्याप्रियत इति दर्शनार्थम् । दुर्गस्थ इति परराज्यविजिगीषाकाले दुर्गमाद्रियेतेति तिष्ठतिप्रयोगेण दर्शयति । मण्डलाधिप इति मण्डलशब्दो जनपदे द्रष्टव्यः । स्वराष्ट्राधिप इत्यर्थः ॥ १ ॥ मण्डल: रोचत इत्यादिना श्लोकद्वयेन प्रकरणद्वये व्यापारफलं दर्शयति । अखण्ड- सम्पूर्णमण्डल इत्यर्थः । सम्पूर्णमण्डलस्तस्माद् विजिगीषुरिति निगमनम् । अत्र राजेति वक्तव्ये विजिगीषुग्रहणं यदा प्रतिष्ठितराज्यो राजा परराज्यं विजिगीषते, तदा विजिगीषुरिति विशेषसंज्ञां लभत इति दर्शनार्थम् । तेनेतः प्रभृति विजिगीषुरधिक्रियते ॥ २ ॥ रथीवेति । रथीव चरन्निति सम्बन्धः । राजा विजिगीषयावस्थितः । मण्डले चक्रनेमिवद् विशुद्धे सति ॥ ३ ॥