पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०२ कामन्दकीय नीतिसारे [ सप्तमः सर्गः ] नयेन जाग्रत्यनिशं नरेश्वरे सुखं स्वपन्तीह निराधयः प्रजाः । प्रमत्तचित्ते स्वपति त्रसद् भयात् प्रजागरेणास्य जगत् प्रबाध्यते ॥ ५८ ॥ इतिस्म पूर्वे मुनयो बभाषिरे नृपस्य राज्यस्य च साधु रक्षणम् । तदेतदेवं परिपालयन् नया- न्नरेश्वरः पालनकल्यतां व्रजेत् ॥ ५९ ॥ ( इत्यात्मरक्षितकं नामैकादशं प्रकरणम् ) इति कामन्दकीये नीतिसारे राजपुत्ररक्षणमात्मरक्षितकं नाम सप्तमः सर्गः । प्रकरणार्थानुष्ठानफलमाह – नयेनेत्यादि । यथोक्तरक्षापूर्वकेण नयचक्षुषा कार्याकार्यं पश्यति सति सुखं स्वपन्ति विस्रव्धं तिष्ठन्ति । प्रमत्तचित्ते स्वपति प्रमत्तचित्तत्वात् कार्याकार्यं न पश्यति प्रजागरेण चिन्तया बाध्यते कुतोऽस्माकं परित्राणं भवितेति ॥ १८ ॥ इदानीं स्वमण्डलगतव्यापारमुपसंहरति - इतीत्यादिना । राज्यस्यामात्यादेः । तदेतदेवमिति । तस्मादेतत् स्वराज्यं सर्गषट्कोक्तेन नयेन परिपालयन् । पालनकल्यतामिति । पालने निर्दोषतां व्रजेत् । अन्यथा पालयन् गर्हिततामित्य- 1 दर्थादापन्नम् ।। १९ ।। (इत्यात्मरक्षितकं नामैकादशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायां राजपुत्ररक्षणमात्मरक्षितकं नाम सप्तमः सर्गः 1