पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः एकादशं प्रकरणम् । वेण्यां शस्त्रं समाधाय तथा चापि विडूरथम् । इति वृत्तं परिहरेच्छत्रौ चापि प्रयोजयेत् ॥ ५४ ॥ यस्य दाराः सुगुप्ताः स्युः पुरुषैराप्तकारिभिः । सर्वभोगान्वितं तस्य हस्ते लोकद्वयं स्थितम् ॥ ५५ ॥ धर्ममिच्छन् नरपतिः सर्वदाराननुक्रमात् । गच्छेदनुदिनं नित्यं वाजीकरणबृंहितः ॥ ५६ ॥ विचार्य कार्यावयवान् दिनक्षये विसृज्य लोकं प्रमदाकृतक्रियः । अशस्त्रबन्धेन हि साधु पाणिना स्वपेदसक्तं परमाप्तरक्षितः ॥ ५७ ॥ तथा विडूरथं वृष्णीनामन्यतमं वेश्याभिः सहोपभुक्तभार्यार्थं तदर्थमप्यात्मानमर्थयन्तं धनमक्षममाणा देवी केशवेण्यामल्पप्रमाणं तीक्ष्णं शस्त्रं निधाय स्वगृहे निद्रावशंगतं मर्मच्छेदाद् जघान । इति वृत्तम् एवंप्रकारं वृत्तं परिहरेत् । न भ्रातरं पुत्रं वा गृहं प्रवेशयन्ननिर्वृतिमभिगच्छेत् । नातिवाक्पारुष्यादिभिरुद्वेजयेत् । न विमानितामधिगच्छेत् । न सम्भोगेन पीडयेत् । न तद्धनं सपत्नीभिः सह भुञ्जीत । शत्रौ च प्रयोजयेदतिसन्धानार्थम् ॥ १४ ॥ १५ ॥ ५६ ॥ इदानीमहोरात्रापेक्षायामाह - विचार्येत्यादिना । कार्यावयवानिति । तद्दिनमष्टधा विभज्य कार्यभेदान् निरूपयेदित्यर्थः । दिनक्षये विसृज्य लोकम् आपराह्निकास्थानगतमिति शेषः । प्रमदाकृतक्रिय इति । रात्रौ प्रमदासु रक्षापूर्वकं कृ- ताभिगमनादिक्रियः । अशस्त्रबन्धेन पाणिना, सन्निहितनखशिरोरक्षाशस्त्रत्वात् । असक्तमिति क्रियाविशेषणं निद्रासक्ति त्यक्त्वेत्यर्थः । परमाप्तरक्षितः अन्तर्वेशिक- सैन्येन परिरक्षितः ॥ ९७ ॥ १. 'वन्ध्येन' मूलकोशेषु पाठः.