पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०० कामन्दकीय नीतिसारे सप्तमः न च देवगृहं गच्छेदात्मीयात् सन्निवेशनात् । अत्यन्तं भोऽस्मीति विस्रम्भं स्त्रीषु न व्रजेत् ॥ ५० ॥ देवीगृहं गतो भ्राता भद्रसेनममारयत् । मातुः शय्यान्तरालीनः कारूशं चौरसः सुतः ॥ ५१ ॥

लाजान् विषेण संयोज्य मधुनेति विलोभ्य तम् । 

देवी तु काशिराजेन्द्रं निजघान रहोगतम् ॥ ५२ ॥ विषदिग्धेन सौवीरं मेखलामणिना नृपम् । नूपुरेण च वैरूप्यं जारुण्यं दर्पणेन च ॥ ५३ ॥ स्वसन्निवेशसमागतास्वपि स्त्रीषु न विश्वसेत् ॥ ५० ॥ तगृहगमने विस्रम्भे च दोषमाह - देवीगृहं गत इत्यादि । कलिङ्गराजस्य भद्रसेनस्य आता वीरसेनः तद्भार्ययाथ कृतजल्पः तद्गृहैकदेशप्रच्छादितात्मा राज्यमपि जिहीर्षुः कलिङ्गराजं भद्रसेनं व्यापादितवान् । मातुः शय्यायाश्चाधोऽवलीन औरसः पुत्रो राज्यार्थमन्यस्मिन् पुत्रे स्निह्यन्तं का (रले ? रू)शं करूशदेशाधिपं देवी गृहगतममारयत् ॥ ५१ ॥ तथाहवो परुद्धबन्धुता कोपतप्ता देवी बलात्कारेणाभिगच्छन्तम् एकदा विष- मिश्रलाजभोजने मधुना मिश्रमिति विलोभ्य भोजयित्वा स्वयमक्षता काशिराजेन्द्रं निजघान ॥ ५२ ॥ तथा सौवीरराजं परन्तपनामानम् अतिवाक्पारुप्योपतापिता तन्मन्युमोक्षार्थिनी देवी स्वयमगदप्रकृतप्रतीकारा स्पर्शविषदिग्धेन मेखलामणिना प्रणयकोपात् किलाहत्य जघान । तथा सपत्नीभिर्मिथ्याभिशस्ता विपत्त्योपगृहीता विषदिग्धबहिः- पार्श्वेन नूपुरेण क्रीडन्ती किलाहत्यावन्तिराजं वैरूप्यं देवी जघान । तथा जारुण्यमयोध्यापतिं दारान्तरासक्तं बाह्योपचारमात्रोपदता तत्सम्भोगपीडिता प्रसाधनकाले विषदिग्धेन दर्पणेन प्रमादात् किल स्खलितेनाभिलिप्य मुखं विषस्पर्शाद्विसर्पोपद्रुतं देवी जघान ५३ ॥ १ 'हि' क. पाठ:. १२. 'पीह वि' क. पाठः ३. 'हगतं' क. पाठः, 'हागतं' ख ग. पाठः ४. 'वीरसे' ख-ग. पाठः. ५. 'षाक्तेन च सौ' क. पाठः. ६. 'राज्यं जा' ख-ग. पाठ.. + 'जालूधमादर्शेन' इति मुद्रित कौटिलीयार्थशास्त्रपुस्तके. * 'एतदुत्तरं 'सुतावरोधं जघान ' (?) इत्यधिकं क ख ग घ पुस्तकेषु पठ्यते.