पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सगः] एकादशं प्रकरणम् रूपाजीवाः स्त्रियः स्नाताः परिवर्तितवाससः । राजानमुपतिष्ठेयुर्विशुद्धस्रग्विभूषणाः ॥ ४५ ॥ कुहकैर्जटिलैश्वापि मुण्डैश्वाभ्यन्तरो जनः । संसर्ग न कचिद् गच्छेद् बाहैर्दासीजनैस्तथा ॥ ४६ ॥

निर्गच्छेत् प्रविशेच्चापि सर्वत्राभ्यन्तरो जनः ।
विज्ञातद्रव्यसञ्चारी करणेनोपलक्षितः ॥ ४७ ॥

न चानुजीविनं पश्येदकल्यं पृथिवीपतिः ।

अन्यत्रात्ययिकात् कार्यात् सर्वत्रात्यायिको गुरुः ॥ ४८ H
स्नातानुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ।

स्नातां विशुद्धवसनां पश्येद् देवीं सुभूषणाम् ॥ ४९ ॥ 1 रूपाजीवाः वेश्याः । स्नाताः परसम्भोगादौ प्रतिषेधार्थम् । परिवर्तितवाससः विशुद्धस्रग्विभूषणाः विषशस्त्रपरिहारार्थम् ॥ ४५ ॥ कुहकाः ये मायायोगदर्शनेन विस्मापयन्ति । मुण्डजटिलाः प्रत्राजिताः परप्रणिधयोऽपि सम्भाव्यन्ते । बाह्यै: राजसम्बन्धिभिरपि, ते ह्यनियतपुरुषसम्भोगत्वा दूषयन्ति ॥ ४६ ॥ 1 विज्ञातद्रव्यसञ्चारीति । यत्किञ्चिन्निष्कास्यते प्रवेश्यते च, तद्दौवारिकविज्ञातं द्वारं द्वारं सञ्चारयितुं शीलमस्येति । तत्रापि करणेनोपलक्षितः अन्तर्द्वाराधिक्कृतमुद्रया तत्प्रत्ययेन सङ्क्रान्तेतरद्वार इत्यर्थः ॥ ४७ ॥ न चानुजीविनं पश्येद् अन्तःपुरवर्तिनमपि । अकल्यं व्याधितम् अप्रशस्तत्वात् । आत्ययिकात् प्राणहरात् ॥ ४८ ॥ पश्येद् देवीमिति । दर्शनेऽपि प्रतिक्रिया, किं पुनः सम्प्रयोग इति दर्शयति ॥ ४९ ॥ १. 'युः शुद्धखम्गन्धभू' क. पाठः २. 'श्चैव मु' ख-ग. पाठः ३. स्यैवातुरो गु' क. पाठः. ४. 'स्वदत्तव' क. पाठः. ५. 'स' क. पाठः.