पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९८ कामन्दकीय नीतिसारे [ सप्तमः यात्रोत्सवसमाजेषु जनसंबाधशालिनः । प्रदेशान् नावगाहेत नातिवेलं च संपतेत् ॥ ४० ॥ निषेवितो वर्षवरैः कञ्चुकोष्णीषधारिभिः । अन्तःपुरेषु विचरेत् कुब्जकैशतवामनैः ॥ ४१ ॥

नीचैरन्तःपुरामात्याः शुचयश्चित्तवेदिनः । 

शस्त्राग्निविषवर्ज हि नर्मयेयुर्महीपतिम् ॥ ४२ ॥ अन्तर्वेशिक सैन्यं हि सन्नद्धं साधुसम्मतम् ।

रक्षेदायुक्तकुशलमन्तःपुरगतं नृपम् ॥ ४३ ॥ 

आशीतिकाश्च पुरुषाः पञ्चाशत्काश्च योषितः ।

पश्येयुरवरोधानां शौचमागारिकाश्च ये ॥ ४४ ॥

3

यात्रा देवतानाम् उत्सवः वसन्तादिः, समाजो जनसमुदायः तेषु । ये जनसङ्कुलाः जनमालाभिश्च गोष्ठीप्रयोजनाभिः परिक्षिप्ताः प्रदेशाः, तान् नावगाहेत दुर्विभाव्यपरपुरुषत्वात् । नातिवेलम् अतिक्रान्तवेलम् अननुरूपवेलायां च न यायादित्यर्थः ॥ ४० ॥ अन्तर्गृहविषयां रक्षां चतुर्दशभिः श्लोकैराह - निषेवित इत्यादि । वर्षवरैः षण्डैः । कैरातास्तद्देशभवा म्लेच्छजातयः ॥ ४१ ॥ नीचैः नर्मयेयुरिति सम्बन्धः, अन्यथा तु क्रीडाव्यसनमेव स्यात् । अन्तःपुरामात्याः वर्षवरादयः । चित्तवेदिन इति । राज्ञो नर्माभिप्रायं बुद्ध्येत्यर्थः । शस्त्रा- ग्निविषवर्जमिति । शस्त्राग्निविषाणि प्रोक्षणीयाङ्गानि मुक्त्वान्यैरुपकरणैरित्यर्थः ॥४२॥ अन्तर्वेशिक सैन्यम् अन्तःपुररक्षा नियुक्तम्। साधुसम्मतम् उपधाशुद्धत्वात् । आयुक्त कुशलमिति । तत्सरं कृतास्त्रं चेत्यर्थः ॥ ४३ ॥ आशीतिका अशीतिजीवितपरिमाणाः । तथा पञ्चाशत्का वीतरागत्वाद् बाधैर्न संसृज्यन्ते । शौचम् उपधाशुद्धिः । आगारिकाः वर्षवरादयः, गृहे नियुक्तत्वात् ॥ ४४ ॥ १. 'प्र' ख-ग. पाठ:. २. 'बुध्येरनव' का पाठः ३. 'नपदसमवायः' ड-च. पाठः. ४. 'प्रे' कख पाठः. ५. 'वापरिशु' कख, पाठः.