पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकादर्श प्रकरणम् । सुविनीतसुवेषपृष्ठयानः सुखगम्या मुचितां च लक्ष्यसिद्धैः । सुपरीक्षितरक्षितान्तसीमां लघुकोष्ठस्तु मृगाटवीमुपेयात् ॥ ३६ ॥

कारयेद् भवनशोधनमादौ 

मातुरन्तिकमपि प्रविविक्षुः । आप्तशस्त्र्यनुगतः प्रविशेत् तत् सङ्कटे च गहने न च तिष्ठेत् ॥ ३७ ॥

पांसूत्करोत्कर्षिणि वाति वाते 

संसक्तधाराजलदे च काले । अत्यातपे वापि तथान्धकारे स्वस्थस्तु सन् न क्वचिदभ्युपेयात् ॥ ३८ ॥

निर्गमे च प्रवेशे च राजमार्ग समन्ततः ।
प्रोत्सारितजनं गच्छेत् सम्यगाविष्कृतोन्नतिः ॥ ३९ ॥

पृष्ठयानं तुरगादि । सुखगम्यां स्थाणुश्च श्राद्यभावात् । उचिताम् अभ्यस्तचरीं, प्रयत्नतो विहितत्वादपेतशङ्कां च । तद्विधानं सप्तव्यसनवर्गे वक्ष्यति । लक्ष्यसिद्ध्यै चललक्षायेत्यर्थ: । सुपरीक्षिता मौलाः । लघुकोष्ठः परिमिताहारः । मृगाटवीं मृगभवनम् ॥ ३६ ॥ भवनशोधनमिति । यद्यत् कार्यवशात् स्वकीयमन्यदीयं वा भवनं प्रविविक्षुः, तत्तद् उत्सारितजनादिकं कारयेत् । मातुरन्तिकमपीति । यतो विजितगुप्तस्यैव मगधराजस्य माताप्यभिचरति स्मेति । प्रविशेत् तद् भवनभिति सम्बन्धः || स्वस्थस्तु सन्निति । आत्ययिकेषु तु कार्येषु कृतप्रतिविधानोऽभ्युपेयादेव ॥ ३८ ॥ निर्गमे च प्रवेशे चेति निष्कास प्रवेश वेलायाम् । समन्ततः पुरस्तात् पृष्ठत उभयपार्श्वतश्च । आविष्कृतोन्नतिः आप्तशस्त्रिभिर्दर्शितार्थाभ्युच्चयः ॥ ३९ ॥ १. 'स' क. पाठः २. 'नः' क. पाठः,