पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [ सप्तमः वीक्षितादुष्टकर्माणमाप्तं वंशक्रमागतम् । संविभक्तं च कुर्वीत जनमासन्नवर्त्तिनम् ॥ ३१ ॥

अधार्मिकांश्च क्रूरांश्च दृष्टदोषान् निराकृतान् । 

परेभ्योऽभ्यागतांश्चैव दूरादेतान् समाचरेत् ॥ ३२ ॥ महावात परिभ्रान्तां परीतानाप्तनाविकाम् । अन्यनौप्रतिबद्धां वा नोपेयान्नावमातुराम् ॥ ३३ ॥ परितापिषु वासरेषु पश्यंस्तट लेखान्तिकमाप्तसैन्यचक्रः । सुविशोधितमीननक्रजालं व्यवगाहेत जलं सुहृत्समेतः ॥ ३४ ॥

गहनानि विसर्जयेद् विशुद्धं 

बहिरुद्यानवनं समभ्युपेतः । विहरन् मधुरं वयोनुरूपैर्न च माद्येद् विषयोपभोगरागात् ॥ ३५ ॥ वीक्षितादुष्टकर्माणं । यद् विश्वासकरं तददुष्टकर्म, तद् दृष्टं यस्य । वंशक्रमागतं मौलम् । संविभक्तं जीवनेन ॥ ३१ ॥ क्रूरान् तीक्ष्णपुरुषान् । निराकृतान् दानमानावक्षिप्तान् । परेभ्योऽभ्यातान् शरणागतान् रक्षणीयान्, कारणागतान् कारणागतत्वात् तर्कणीयान् । दूरेण समाचरेत् नासन्नवर्तिनः कुर्यादित्यर्थः ॥ ३२ ॥ ( अभिग्रहो नियमनम् अनभिप्रेते वाते मितग्रही मनुष्यसञ्चारादित्यर्थः ? ) नाविकः कर्णधारादिः । अन्यनौकाप्रतिबद्धां परनौभिर्गुणैः प्रतिबद्धत्वात् तदनुसाराम् । आतुरां जर्जराम् ॥ ३३ ॥ परितापिष्विति । त्रैष्मिकेषु । सुहृत्समेतः मनस्सचिवैः परिवृतः ॥ ३४ ॥

विशुद्धं व्यालग्राह्यादिभिरपनीतसर्पादिभयत्वात् । विहरन् क्रीडन् । मधुरं

मन्दम् । न च माद्येत् न प्रमत्तः स्यात् ॥ ३५ ॥ १. 'विवर्जयेत्' इति मूलकोशेषु पाठः. २. ‘समुद्धूतां’ क. पाठः, ३. 'न्तामपरीक्षित ना क. पाठः ४. 'रैः' ख.ग. पाठः. ५. 'अभिप्रेते वातेऽरित्रग्राहिमनुष्यसञ्चारः स्यादि' इ.च. पाठः,