पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः 1. एकादशं प्रकरणम् ।९५ स्वकर्मणि स्वभूमौ स्यादनवस्थानमेव च ।

लिङ्गान्येतानि निपुणं लक्षयेद् विषदायिनाम् ॥ २६ ॥ औषधानि च सर्वाणि पानं पानीयमेव च । तत्कल्पकैः समास्वाद्य प्राश्नीयाद् भोजनानि च ॥ २७ ॥ प्रसाधनादि यत्किञ्चित् तत् सर्वं परिचारकाः ।

उपनिन्युर्नरेन्द्राय सुपरीक्षितमुद्रितम् ॥ २८ ॥
परस्मादागतं यच्च तत्तत् सर्वं परीक्षयेत् ।

स्वेभ्यः परेभ्यश्च तदा रक्ष्यो राजा हि रक्षिता ॥ २९ ॥

यानवाहनमारोहेद् ज्ञातं ज्ञातोपपादितम् ।
अविज्ञातेन हि पथा सङ्कटेन च न व्रजेत् ॥ ३० ॥

अनवस्थानं लक्ष्यमाणादन्यत्र गमनम् ॥ २६ ॥ पानमिति । मदिरादि । तत्कल्पकैरिति । औषधं वैद्यैः, पानं पानीयं च तत्कर्मान्तिकैः, भोजनं सूपकारैः परोपजाप शुद्ध्यर्थ प्रतिस्वाद्य स्वयमश्नीयात् ॥ २७॥ प्रसाधनादीति । प्रसाधनं शलाकाञ्जनादि । आदिशब्दात् क्षुरकर्तरी- सन्दंशादिपरिग्रहः । परिचारकाः प्रसाधककेशकल्पकादयः । उपनिन्युः अन्तर्वशिकहस्तादादाय परिचरणार्थन् । सुपरीक्षितमुद्रितं प्राक् स्थापितम् ॥ २८ ॥ परस्मादिति । परगृहात् सामन्तादेर्वा शत्रोर्वा सकाशाद् । आगतमवश्योपयोग्यम् । परीक्षयेत् स्वगृहोपकरणवत् । कस्मात् स्वपरोपकरणपरीक्षणमिति चेद्, राज्ञः सदा रक्षणीयत्वात्, यदाह --- स्वेभ्यः परेभ्यश्चेति । कस्माद् रक्ष्य इत्याह--- रक्षितेति । स हि लोकस्य पालयिता ॥ २९ ॥ तत्र बहिर्विषयां रक्षामेकादशभिः श्लोकैराह - यानेत्यादि । यानं शिबिका, वाहनम् अश्वादि । ज्ञातमात्मीयम् । ज्ञातोपपादितम् आप्तेपुरुषोपनतिम् । सङ्कटेन एकयानमार्गेण ॥ ३० ॥ १, 'तत् सर्व सुप' क. पाठः. २. 'त्म' क ख ग घ पाठ..