पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९४ कामन्दकीय नीतिसारे [सप्तमः आर्द्रस्य सर्वस्य भवेत्तु सद्यः प्रम्लानभावो विषदूषितस्य ।

उत्पक्कता क्वाथविनीलता च श्यामता चेति वदन्ति तज्ज्ञाः ॥
शुष्कस्य सर्वस्य विषोपदेहाद् विशीर्णता चाशु विवर्णता च ।
खरं मृदु स्यान्मृदुनः खरत्वं तदन्तिके चाल्पकजन्तुघातः ॥ 

प्रावारास्तरणानां च श्याममण्डलकीर्णता । तन्तूनां पक्ष्मणां लोम्नां स्याद् भ्रंशश्च विषाश्रयात् ॥ २३ ॥

लोहानां च मणीनां च मलपङ्कोपदिग्धता ।
प्रभाव स्नेहगुरुतावर्णस्पर्शवधस्तथा ॥ २४ ॥
संशुष्कश्यामवकत्वं वाग्भङो जृम्भणं मुहुः ।

स्खलनं वेपथुः स्वेदो ह्यावेशो दिग्विलोकनम् ॥ २५ ॥ आर्द्रस्येति । दाडिमादेः । सद्यः प्रम्लानभावः आशु कृष्णत्वम् । उत्पक्कता पूतिभावः । क्वाथता द्रवीभावः, नीलभावः अवनीफलानां कार्ण्यम् । प्रश्यामता वैवर्ण्यम् ॥ २१ ॥ शुष्कस्य वल्लूरादेः । आशु शीर्णता द्रुतमवयवविशरणम् । विवर्णता उचितवर्णपरिवृत्तिः। खरं कठिनं नालिकेरादि । मृदुनः कदलीफलादेः । तदन्तिक इति । यथोक्ताहारजातस्य पार्श्वे । अल्पकजन्तुघातः विषवायुस्पर्शघ्राणादिभिर्मक्षिकादिमरणम् || २२ ॥ प्रावारास्तरणानामिति । कार्पासाविकवल्कलकृमिजातानाम् । श्याममण्डलकीर्णता अनातपशुष्काणामिव विवर्णमण्डलाकीर्णता । तत्र तान्तवानां तन्तु- भ्रंशः, पुष्पर्पटलवर्णकम्बलादीनां पक्ष्मभ्रंशः, ऊर्णाचर्ममयानां लोमभ्रंश इति ॥ २३ ॥ लोहानां सुवर्णादीनाम् । मणीनां स्फटिकादीनाम् । मलपङ्कोपदिग्धता मलपङ्केनावलिप्तता । प्रभावः स्वकार्थसाधनसामर्थ्यम् । स्नेहः स्निग्धता ॥ २४ ॥ विषप्रदस्य परिहारार्थं तन्निग्रहार्थं च लिङ्गान्याह --- संशुष्केत्यादिना । श्यामत्वं विवर्णता । वाग्भङ्गः वाचि प्रतिबन्धः । स्खलनं समेऽपि । आवेशः परवशता ॥ २५ ॥ 1 १. 'स' क. पाठः. २ 'प्यप' क, पाठ:. ३. 'स्व' ख- ग. पाठः. ४. 'पटव' क ख-ग-घ. पाठः.