पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] ९३ एकादशं प्रकरणम् । भोज्यमन्नं परीक्षार्थं प्रदद्यात् पूर्वमग्नये । वयोभ्यश्च ततो दद्यात् तत्र लिङ्गानि लक्षयेत् ॥ १५ ॥

धूमार्चिनीलता वह्नेः शब्दस्फोटश्च जायते । 

अन्नेन विषदिग्धेन वयसां मरणं भवेत् ॥ १६ ॥ अक्किन्नता सोदकत्वमाशु शैत्यं विवर्णता ।

अन्नस्य विषदिग्धस्य तथा स्निग्धत्वमेव च ॥ १७ ॥

व्यञ्जनस्यशु शुष्कत्वं क्वथनं श्यामनता । 

गन्धस्पर्शरसाचैव नश्यन्ति विषदूषणात् ॥ १८ ॥ छायातिरिक्ता हीना वा द्रवे चै विषदूषिते ।

दृश्यते राजिरूर्ध्वा च फेनमण्डलमेव च ॥ १९ ॥ 

रसस्य नीला पयसश्च ताम्रा मद्यस्य तोयस्य च कोकिलाभा । श्यामा च दघ्नो विषदूषितस्य मध्ये भवत्यूर्ध्वगता च रेखा ॥ २० ॥ पूर्वमग्नये वयोभ्यश्च दद्यात्, परीक्षार्थं बलिहरणाचारानुवर्तनार्थं च ॥ १॥ धूमार्चिनीलतेति । धूमस्यार्चिषां च नीलत्वम् । स्फोटः चटचटाशब्दः । वयसां पक्षिणां काकादीनां बलिभुजाम् ॥ १६ ॥ अक्लिन्नता असम्यक्पाकता । सोदकत्वमिति सिक्थैकीभावः अवैशद्यं वा । आशु शैत्यम् अनुचितात् कालादित्यर्थः । विवर्णता शाल्योदनस्य मलिनता । स्निग्धत्वं मेचकत्वं मयूरकण्ठसदृशत्वम् ॥ १७ ॥ व्यञ्जनस्य सूपादेः । क्वथनं तक्रादिकस्यैवाग्निवियोगादुत्कथनम् । श्यामता अविदग्धेऽपि तत्प्रदेशे । सफेनता वह्नेश्विरावतारितस्यापि ॥ १८ ॥

छाया स्वप्रतिबिम्बम् । द्रवे यूषादौ । राजिरूर्ध्वा उपरिरेखा । फेनमण्डलं सिध्यमानावस्थायामिव ॥ १९ ॥

राजिविशेषमाह - रसस्येत्यादिना । इक्ष्वादिरसस्य । पयसः क्षीरस्य । श्यामा वैदूर्यवर्णा ॥ २० ॥ १. 'स्वि' क. पाठः २. 'थोष्मस्निग्धमे क. पाठः. ३. 'स्य च शुक. पाठः. ४. 'ने' क. पाठः. ५. ‘स्याद् वि’ क. पाठः. ६. 'विषयो' क ख ग घ पाठः,