पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९२ कामन्दकीय नीतिसारे [ सप्तमः

  • ११ आत्मरक्षितकप्रकरणम् *

याने शय्यासने भोज्ये पाने वस्त्रे विभूषणे । सर्वत्रैवाप्रमत्तः सन् बुध्येत विषदूषितम् ॥ ९ ॥

विषन्नैरुदकैः स्नातो विषन्नमणिभूषणः ।
परीक्षितं समश्नीयाज्जाङ्गलीविद्भिषग्वृतः ॥ १० ॥ 

भृङ्गराजः शुकचैव शारिका चेति पक्षिणः ।

क्रोशन्ति भृशमुद्विग्ना विषपन्नगदर्शनात् ॥ ११ ॥
चोरस्य विरज्येते नयने विषदर्शनात् ।

सुव्यक्तं माद्यति क्रौञ्चो म्रियते मत्तकोकिलः ॥ १२ ॥ जीवञ्जीवस्य च ग्लानिर्जीयते विषदर्शनात् ।

तेषामन्यतमेनापि समश्नीयात् परीक्षितम् ॥ १३ ॥ 

मयूरपृषतोत्सर्गान्न भवन्ति भुजङ्गमाः । तस्मान्मयूरपृषतौ भवने नित्यमुत्सृजेत् ॥ १४ ॥ इदानीं सामान्येनैव स्वेभ्यः परेभ्यश्च शरीरोपघातत्राणार्थमात्मरक्षितकं प्रकरणमुच्यते --- यान इत्यादिना ग्रन्थेन । सर्वत्रैवाप्रमत्तः स्यात्, पानादिषु हि स्वपरैर्विषशस्त्रादिप्रणिपातसम्भवात् । बुध्येत वक्ष्यमाणपरीक्षया ॥ ९ ॥ । 1 तामाह विंशत्या श्लोकैः । विषघ्नैरित्यादि । विषघ्नौषधिसंसर्गाद् विषघ्नैः । विषघ्नो मणिर्वज्रमुक्तादिः । जाङ्गलीविद् यो दंष्ट्रोपलक्षितविषतन्त्रविद् भिषक्, अष्टाङ्गायुर्वेदविदिति यावत् ॥ १० ॥ पाट: भृङ्गराजः पक्षिविशेषः ॥ ११ ॥ विरज्येते स्वभाववर्णत्यागात् । माद्यति विह्वलीभवति ॥ १२ ॥ ग्लानिर्दीनता ॥ १३ ॥ पृषतो मृगविशेषः । न भवन्ति भुजङ्गमाः तैर्भक्ष्यमाणत्वात् ॥ १४ ॥ १. 'र्गेन' खन. पाठ:. २. 'द् जाङ्गलीविद्योपलक्षितो विषतन्त्रविद् यो' क-ख-इ-च.